________________
• मुक्तिपुरुषार्थे विवेकोपयोगिता •
२१४९ ___ अतो गुणहानेरनिष्टत्वेन दुःखाऽभावरूपायां मुक्तौ तदर्थप्रवृत्तिव्याघात एव → न च जायत एव बहुतरदुःखजर्जरकलेवराणां मरणादौ प्रवृत्तिरिति वाच्यम्, तस्या अविवेकिप्रवृत्तित्वात् । 'पुरुषार्थत्वे विवेकानुपयोग' इति चेत् ? सत्यम्, नैयायिकपशूनामेव तदनुपयोगः, न तु प्रेक्षावताम्, यथावत् प्रयोजन प्रमायैव तत्प्रवृत्तेः (न्याया. प्र.१/पृ.३४) ८ इति व्यक्तं न्यायालोके ।
वस्तुतः पूर्वं → ये च विवेकिनः 'अस्मिन् संसारकान्तारे कियन्ति दुःखदुर्दिनानि कियती सुखखद्योतिका ? इति कुपितफणिफणामण्डलच्छायाप्रतिममिदमिति मन्यमानाः सुखमपि हातुमिच्छन्ति तेऽत्राऽधिकारिणः - (त.चिं.मुक्तिवाद-पृ.१७६) इत्युक्त्या मोक्षाधिकारिणो विवेकिविशेषणमुपाददानोऽपि पश्चात् 'पुरुषार्थत्वे विवेकानुपयोगादि'ति (त.चिं.अनुमानखण्ड-भाग-३-मु.वा.पृ.१७६) तत्त्वचिन्तामणी मुक्तिवादप्रकरणे ब्रुवाणो गङ्गेशः प्रेक्षावतामुन्मत्त-जडवत्प्रतिभाति, उन्मत्त-जडानामेव विवेकाऽनुपयोगादिति । सर्वात्मविशेषगुणोच्छेदे मुक्तावात्मनो जडत्वापातेन तस्या अपुरुषार्थतापत्तेः ।
एतेन → मुक्तजीवो जडात्मकः - (शि.गी.२ ।८) इति शिवगीतावचनमपि निरस्तम्, जडताया अनिष्टत्वेन मोक्षस्य स्वतः काम्यत्वोच्छेदाऽऽपत्तेः । ततश्च नैयायिकाभिमतमुक्त्यवाप्तये मुमुक्षूणां ज्ञानादिहानोद्यमः विपुलकदलीफललिप्सया जिह्वाच्छेदनन्यायमनुसरति । ततश्च सुष्ठुक्तमन्यैरपि → वरं वृन्दावने रम्ये शृगालत्वं वृणोम्यहम् । न तु निर्विषयं मोक्षं गोतमो गन्तुमिच्छति ।। (योगबिन्दौ उद्धृतः१३८) इति । न चायं पूर्वसेवाद्वात्रिंशिकादर्शितरीत्या(द्वा.द्वा.१२/२५ भाग-३ पृ.८७४) मुक्तिद्वेषप्रयुक्ततयोन्मत्तप्रलाप इति वाच्यम्, धीमतां गुणहानेः = अत्यन्ताऽऽत्मविशेषगुणोच्छेदस्य अनिष्टत्वेन = बलवद्वेष्यत्वेन दुःखाऽभावरूपायां सुख-ज्ञानाद्यभावाऽनुविद्धायां मुक्तौ स्वीक्रियमाणायां तदर्थप्रवृत्तिव्याघातः = ज्ञान-सुख-दुःखाद्यभावरूपमुक्तिकृतेऽभिव्यक्ताऽखिलाऽखण्डाऽऽत्मगुणार्थिप्राज्ञमुमुक्षुकर्तृकप्रवृत्तेः प्रतिरोध एव नैयायिकमते महद् दूषणमिति । एतेन → दुःखाभावदशायां 'सुखं नास्ति' इति ज्ञानं न दुःखाभावार्थिनः प्रवृत्तिप्रतिबन्धकम्, दुःखभीरूणां सुखलिप्सूनां मोक्षेऽनधिकारात् + (कि.प्र.मुक्तिवाद पृ.५२) इति किरणावलीप्रकाशकृतो वर्धमानस्य वचनं निरस्तम्, प्रेक्षावतां गुणानुरागितया नैयायिकसम्मतमोक्षपुरुषार्थोच्छेदापत्तेः । एतेन → कस्यचिदप्रवृत्तावपि चिकित्सादेः पुरुषार्थत्वात् + (त.चिं.अनु.२/मु.वा. पृ.१७६) इति तत्त्वचिन्तामणिकृद्वचनं निरस्तम्, यतः प्रशमप्रभवसुखकामितया योगिनामपि सकलस्वगुणोच्छेदेऽप्रवृत्तौ नैयायिकमुक्तेः पुरुषार्थता भृशं हीयते । ___ एतेन ज्ञान-सुख-दुःखाद्यात्मविशेषगुणोच्छेदे आत्मनः स्वरूपाऽवस्थानं मुक्तिरिति प्रभाकरमिश्रमतमपि निराकृतम्, मोक्षस्याऽपुरुषार्थत्वाऽऽपत्तेः ।
यत्तु शिवरामेण नवमुक्तिवादटीकायां 'स्वर्गादिवद् दुःखाऽभावस्य वेद्यत्वं दुरपह्नवम् । न हि लौकिતો બેભાન થવા માટે પણ બુદ્ધિશાળી માણસ પ્રવૃત્તિ કરશે.
આમ જ્ઞાન, સુખ આદિ આત્મગુણોની હાનિ પ્રાજ્ઞ પુરુષને માન્ય નથી એમ સિદ્ધ થાય છે. તે કારણસર મોક્ષને જો સુખ-દુઃખાદિઅભાવ સ્વરૂપ માનવામાં આવે તો તેવા મોક્ષને ઉદ્દેશીને મોક્ષસાધનામાં કોઈ હોશિયાર માણસ પ્રવૃત્તિ કરતો અટકી જશે. આ નૈયાયિકમાન્ય મોક્ષમાં મોટું દૂષણ છે. આવું °४९वानुं मी अंथ।२ श्रीन तात्पर्य छ. (3१/२६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org