________________
• समानाऽऽयव्यये परिश्रमवैफल्यम् •
२१४७ समानेति । समानाऽऽयव्ययत्वे च सुख-दुःखाऽभावाभ्यामभ्युपगम्यमाने मुक्तौ वृथा परिश्रमः, गुणहानेरनिष्टत्वात् तदनुविद्धदुःखनाशोपायेऽनिष्टाऽनुबन्धित्वज्ञानेन प्रेक्षावत्प्रवृत्तेरयोगात् ।।
मुक्तेरखिलाऽऽत्मविशेषगुणोच्छेदरूपत्वे बाधकान्तरमाविष्करोति- ‘समाने'ति । मुक्तौ सुखस्याऽप्यभावो दुःखस्याऽपि चाभाव इत्येवं समानाऽऽय-व्ययत्वे = तुल्यलाभ-हानित्वे सुख-दुःखाऽभावाभ्यां = सुखाभाव-दुःखाभावाभ्यां अभ्युपगम्यमाने मुक्तौ परिश्रमो वृथा = निष्फल एव, गुणहानेः = आत्मगुणध्वंसस्य प्रेक्षावतां अनिष्टत्वात् । ततश्च आत्मनि गुणस्वीकारेऽपि मुक्तौ तदुच्छेदाभ्युपगमापेक्षया प्रथमतः साङ्ख्यसम्मतनिर्गुणात्ममुक्तिः श्रेयसी स्यात् । एतेन → वरं कृतध्वंसगुणादत्यन्तमगुणः पुमान् । प्रकृत्या ह्यमणिः श्रेयान् नाऽलकारच्युतोपलः ।। ( ) इत्यपि व्याख्यातम्, अभ्युपगमसिद्धान्तापेक्षया तदुपपत्तेः ।
एतेन मुक्तौ दुःखोच्छेदत्वाऽनुसन्धानेन तदुपाये नैयायिकप्रवृत्त्युपपत्तिरपि निराकृता, मुक्तेः दुःखाऽभावात्मकत्वकक्षीकारे दुःखाऽभावदशायां 'सुखं नास्तीति ज्ञानस्य मोक्षोपायप्रवृत्तिप्रतिबन्धकत्वात् । न च बहुतरदुःखानुविद्धतया सुखस्यापि प्रेक्षावद्धेयत्वमिति वाच्यम्, आवश्यकतया दुःखस्यैव हेयत्वात्, सुखस्य निरुपधिकामनाविषयत्वात्, अन्यथा दुःखाऽननुविद्धतया तथात्वे पुरुषार्थत्वविरोधाऽऽपातात् । न चेष्टदुःखाऽभावसाधनत्वप्रकारकज्ञाने तत्र प्रवृत्तियुज्यत इति वाच्यम्, सुखहानेरनिष्टत्वेन तदनुविद्धदुःखनाशोपाये = सकलसुखहानिसंवलितदुःखध्वंसरूपमुक्तेः साधनीभूते पारिव्राज्यादौ अनिष्टाऽनुबन्धित्वज्ञानेन = बलवदनिष्टाऽऽवहत्वनिश्चयेन प्रेक्षावत्प्रवृत्तेः = प्रेक्षावतां स्वारसिकप्रवृत्तेः अयोगात् = असम्भवात् । ततश्चैकं सन्धित्सतोऽपरं प्रच्यवते इति न्यायेन दुःखवत् सुखमप्युच्छिद्यते इति अकाम्यैव नैयायिकमुक्तिः स्यात् । न च विधिवाक्येनैव मोक्षे सुखादिशून्येऽपि प्रवृत्तिः जनयिष्यते इति वाच्यम्, 'न हि विधिशतेनाऽपि तथा पुरुषः प्रवर्तते यथा स्वेच्छये ति न्यायेन कामनाविरहे विधिवाक्येन प्रवृत्त्यनुपपत्तेः । तदुक्तं वाचस्पतिमिश्रेण अपि न्यायकणिकायां → न च विधिमात्रमपि प्रवृत्तिहेतुः, अनिच्छतो विधीनां शतेनाऽप्यप्रवृत्तेः - (न्या.क.पृष्ठ.४०७) इति । न च सुखहानौ बलवदनिष्टाऽननुबन्धित्वप्रकारकधिया तदनुविद्धदुःखनाशोपाये प्रेक्षावतां प्रवृत्त्युपपत्तिरिति वाच्यम्, सानुबन्धनिरतिशयसुखस्य बलवदिष्टत्वेन सकलतद्धानौ बलवदनिष्टाऽननुबन्धित्वस्य प्रतिसन्धातुमशक्यत्वात् । तदेतत् ‘परमानन्दसमनुविद्धकर्मक्षयो मुक्तिरिति सङ्गतं मतं परित्यज्य दुःखाऽऽत्यन्तिकक्षय एव मुक्तिरिति स्वीकरणं क्षीरं विहाया
ટીકાર્થ :- દુઃખને રવાના કરવા જતાં સુખ પણ રવાના થઈ જતું હોય તો લાભ-નુકશાન સરખા થઈ ગયા. આમ વિચારીએ તો મોક્ષમાં સુખ અને દુઃખ ન માનવાથી લાભ-નુકશાન સમાન માનવાના હોવાથી મુક્તિને વિશે પરિશ્રમ વ્યર્થ સાબિત થશે. કારણ કે ગુણહાનિ તો કોઈને માન્ય ન જ હોય. સ્વગુણનાશ સર્વને અનિષ્ટ જ છે. તેથી ગુણનાશયુક્ત દુ:ખધ્વસનો ઉપાય તો અનિષ્ટને લાવનાર થશે. સુખ એ આત્માનો વિશેષ ગુણ છે. તથા નૈયાયિકમત મુજબ સર્વ દુઃખāસસ્વરૂપ મુક્તિમાં સુખનો ઉચ્છેદ હોવાથી તેવો મોક્ષ સુખનાશરૂપ અનિષ્ટ તત્ત્વને લાવનાર થઈ જાય છે. અનિષ્ટ સાધનતાનું જ્ઞાન તો પ્રવૃત્તિમાં પ્રતિબંધક છે. તેથી જે પ્રાજ્ઞ પુરુષને ખબર પડશે કે “નૈયાયિકમાન્ય મુક્તિ મેળવવા જતાં આત્માના અત્યંત ઈષ્ટ એવા જ્ઞાન, સુખ વગેરે તમામ વિશેષ ગુણોનો ઉચ્છેદ થઈ જશે” તો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org