________________
२९८
• भक्तियोगस्य श्रेष्ठतोपदर्शनम् • द्वात्रिंशिका-४/३१-३२ पूज्योऽयं स्मरणीयोऽयं सेवनीयोऽयमादरात् । अस्यैव शासने भक्तिः कार्या चेच्चेतनाऽस्ति वः।।३१।। सारमेतन्मया लब्धं श्रुताब्धेरवगाहनात् । भक्तिर्भागवती बीजं परमानन्दसम्पदाम् ॥३२॥ ___अर्हद्ध्यानस्य परमात्मभावनिबन्धनत्वमाह- 'आत्मेति । अर्हद्ध्यानस्याऽत्र सिद्धस्वर्णरसत्वमभिमतम् । प्रकृते च → योग्योपादानयोगेन दृषदः स्वर्णता मता। द्रव्यादिस्वादिसम्पत्तावात्मनोऽप्यात्मता मता ।। 6 (इष्टो.२/२) इति इष्टोपदशवचनमपि न विस्मर्तव्यम् । → नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन यमेवैष वृणुते तेन लभ्यः तस्यैष आत्मा विवृणुते तनुं स्वाम् ।। 6 (कठो.१३।३३) इति कठोपनिषदुक्तिरपि यथागममत्रोहनीया ।।४/३०।। ___पूज्योऽयम्' इति । इदञ्च व्यवहारनयाश्रयत उक्तम् । निश्चयतस्तु स्वात्मैव पूज्य इति तु विवेकः कार्यः । शुद्धात्मस्वरूपोपलब्धिकृते शुद्धात्मस्वरूपप्रकाशकप्रभुपूजाकरणे स्वात्मभक्तिरपि समुच्छलति एव । अत्र चार्थे → आत्मप्रभुं विना किञ्चिन्नान्यदिच्छेच्छुभाशुभम् । परा भक्त्या प्रभु पश्यन् भक्तः साक्षात्प्रभुर्भवेत् । 6 (अ.गी.३६७) इति अध्यात्मगीतावचनं, → आत्मारामे परा भक्तिः, परब्रह्मणि मग्नता । पूर्णानन्दमयः पूज्यो, महादेवः स्वरूपभाक् ।। (आ.द.गी.१०८) इति आत्मदर्शनगीतावचनमपि विभावनीयम् । एतेन → अहो अहं नमो मह्यं यस्य मे नास्ति किञ्चन । अथवा यस्य मे सर्वं यद्वाङ्मनसगोचरम् ।। - (अष्टा.गी.२/१४) इति अष्टावक्रगीतावचनमपि व्याख्यातम् ।।४/३१।।
'सारमिति कारिकार्थः सुव्यक्तः। नवरं परमानन्दसम्पदां = पुष्टि-शुद्धिपरमप्रकर्षभावि-परममुनिस्पृहणीयरुचिराऽऽनन्दविभूतीनां बीजं = निमित्तकारणं भागवती भक्तिः। सम्मतश्चायमर्थः परेषामपि । तदुक्तं गणेशगीतायां → ज्ञान-निष्ठात् तपोनिष्ठात् कर्मनिष्ठाद् नराधिप !। श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान् मयि तेषु यः ।। 6 (ग.गी.५/२७) इति । यथोक्तं कपिल-देवहूतिसंवादे अपि → न युज्यमानया भक्त्या भगवत्यखिलात्मनि । सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ।। ६ (क.दे.१/ १९) इति । → सर्वोपायान् परित्यज्य भक्तिमाश्रय । भक्तिनिष्ठो भव । भक्त्या सर्वसिद्धयः सिध्यन्ति। भक्त्याऽसाध्यं न किञ्चिदस्ति - (त्रिपा.वि.८/९) इति त्रिपाद्विभूतिमहानारायणोपनिषद्वचनं, → सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज - (भ.गी.१८/६६) इति च भगवद्गीतावचनमपि यथातन्त्रमनुयोज्यम् । → नवधा भक्तियोगेन - (शां.सं.३/२२) इत्यादिना शाण्डिल्यसंहितायां यो नवधा भक्तियोगो दर्शितः सोऽपीह यथातन्त्रमनुयोज्यः । → ब्राह्मणा ये भक्तिमार्गं न विदन्ति तेषां सम्भाषणं स्पर्श न कुर्यात् । તાંબુ સુવર્ણપણાને પ્રાપ્ત કરે છે તેમ આ વાત જાણવી. (૪/૩૦)
ગાથાર્થ :- જો તમારામાં ચેતના = બુદ્ધિ હોય તો આ જ વીતરાગ તીર્થકર આદરપૂર્વક પૂજવા જેવા છે, યાદ કરવા લાયક છે, સેવા કરવા યોગ્ય છે. તેમ જ તેમના જ શાસનની ભક્તિ-સેવા ४२१॥ ४वी छे. (४/३१)
ગાથાર્થ :- શ્રુતસાગરનું અવગાહન કરવાથી મને આ સાર = નિષ્કર્ષ મળેલ છે કે ને ભગવાનની मति मे ४ ५२मा ६३५ भोक्षनी संपत्तिनु बी४ छ. - (४/३२)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org