________________
• परस्मिन् धर्म-कर्मसङ्क्रमाभावद्योतनम् •
२८७
निर्वृतिप्रतिपादनात्, ‘गङ्गावालुकासमा बुद्धा निर्वृता ' ( ) इति परेषामागमव्यवस्थितेः, स्वाऽन्यधर्माऽधर्मयोः परेषु स्वस्मिंश्चोपसङ्क्रमे तदयोगात् ।
मत्सुचरितयोगाच्च, मुक्तिः स्यात्सर्वदेहिनाम् ।। ← (अ.प्र. २९/४) तद्वृत्तिः ' मयि इत्यनेन बोधिसत्त्व आत्मानं निर्दिशति, एवशब्दोऽवधारणे, तेन मय्येव न पुनः परत्र, निपततु नितरामापद्यताम्, एतत् प्रतिप्राणिप्रत्यक्षमक्षुण्णं(लक्षणं) सांसारिकाऽसुखकारणम्, 'जगतां' प्राणिनां 'दुश्चरितं' हिंसादिनिबन्धनं कर्म जगद्दुश्चरितम्, यथा इत्युपदर्शनार्थः, तस्य चैवं सम्बन्धः तत्तथौदार्ययोगेऽपि चिन्त्यमानं न तादृशं यथा एतन्मय्येवेत्यादि, तथा मत्सुचरितयोगात् मदीयाहिंसादिसदनुष्ठानसम्बन्धात्, चशब्दः समुच्चये, मुक्तिः = मोक्षः स्यात् = भवेत्, सर्वदेहिनां = सकलसंसारिणामिति कुशलचित्तमिति' (अ.प्र. २९/४ वृत्तिः) ।
=
कस्मादिदं तथौदार्ययुक्तमपि न सामायिकसदृशं भवतीत्याह असम्भवीदं यद्वस्तु, बुद्धानां निर्वृतिश्रुतेः । सम्भवित्वे त्वियं न स्यात्तत्रैकस्याप्यनिर्वृतौ ।। ← ( अष्टक २९/५ ) इति । तद्वृत्तिः तु एवम् असम्भवि न सम्भवनस्वभावम्, इदं = अनन्तरोदितम्, यत् = यस्मात्, वस्तु = अन्यकृतकर्मणोऽन्यत्र सम्बन्धलक्षणोऽर्थः कुत इत्याह बुद्धानां = बोधिसत्त्वानाम्, निर्वृतिश्रुतेः = निर्वाणगमनश्रवणात् तदागमे। तथाहि “ गङ्गावालुकासमा बुद्धा निर्वृता ” ( ) इति तदागमः । अयमभिप्रायो यदि जगद्दुश्चरितं बुद्धेऽपतिष्यत्तदा तस्य निर्वाणं नाभविष्यत् इष्यते च तत्तस्य इति असम्भवीदं वस्तु । एतदेवाह - सम्भवित्वे तु भवनस्वभावत्वे पुनरस्य वस्तुनः इयं श्रूयमाणा बुद्धनिर्वृतिः, न स्यात् = न भवेत्, तत्र तेषु जगत्सु मध्ये, एकस्यापि जगत आस्तां बहूनाम्, अनिर्वृतौ अनिर्वाणे सति । अतोऽसम्भवित्वादस्य वस्तुन एतत् कुशलचित्तं न सामायिकसदृशम् ← ( अ.२९/५ वृ.) इति ।
=
=
=
किञ्च धर्माधर्मयोः स्वसमानाधिकरणसुख-दुःखजनकत्वनियमात्, स्वानधिकरणे सङ्क्रमाऽयोगाच्च नेदं सम्भवि । स्वान्यधर्माधर्मयोः परेषु स्वस्मिंश्चोपसङ्क्रमे = सुगतधर्मस्य तद्व्यतिरिक्तजीवेषु तदन्यजीवगताऽधर्मस्य च सुगते सङ्क्रमे सम्भवे स्वीक्रियमाणे वा तदयोगात् = गङ्गावालुकासङ्ख्याकबुद्धनिर्वाणाऽसम्भवापातात्, जगज्जीवानाञ्च सर्वेषां सुगतसुचरितसङ्क्रमान्मुक्तिप्रसङ्गाच्च ।
एतेन
=
=
=
Jain Education International
=
=
बहूनामेकदुःखेन यदि दुःखं विगच्छति । उत्पाद्यमेव तद् दुःखं सदयेन परात्मना ।। मुच्यमानेषु सत्त्वेषु ये ते प्रमोद्यसागराः । तैरेव ननु पर्याप्तं मोक्षेणाऽरसिकेण किम् ? ।। ← (बो.चर्या. ८/१०५,१०८) इति बोधिचर्यावतारवचने निरस्ते वेदितव्ये, पारमार्थिकतत्त्वानवबुद्ध-बुद्धवचनत्वात् । તેમના ગ્રન્થોમાં જણાવેલ છે કે ‘ગંગાની રેતીના કણ જેટલા બુઢ્ઢો મુક્ત થયેલા છે.' જો પોતાના ધર્મનો બીજા પ્રાણીમાં સંક્રમ થઈ શકતો હોત અને બીજાના પાપનો સંક્રમ પોતામાં થઈ શકતો હોત તો બુદ્ધોની મુક્તિ થઈ જ ન હોત; કારણ કે અનંતા, દુ:ખી જીવો હજુ જગતમાં વિદ્યમાન છે, કે જેમના દુઃખદાયી પાપ કર્મોના કુટુ ફળ ભોગવવાની બુદ્ધને પ્રબળ ઈચ્છા થયેલી.
જગતના પ્રાણીઓના પાપકર્મો બુદ્ધમાં સંક્રમી શકતા હોત અને ગૌતમ બુદ્ધના ધર્મનો સંક્રમ
For Private & Personal Use Only
www.jainelibrary.org