________________
पाप-पुण्यचतुर्भङ्ग्यावेदनम्
द्वात्रिंशिका-४/१६
1
चत्वारो हि भङ्गा पुण्य - पापयोः सम्भवन्ति । पुण्याऽनुबन्धि पुण्यमित्येकः, पापाऽनुबन्धि पुण्यमिति द्वितीयः पापानुबन्धि पापमिति तृतीयः, पुण्याऽनुबन्धि पापमिति चतुर्थः । तत्राऽऽद्यं मनुष्यादेः पूर्वभवप्रचितं मानुषत्वादिशुभभावाऽनुभवहेतुः 'अनन्तरं देवादिगतिपरम्पराकारणम् । अनन्तरं नारकादिभवपरम्पराकारणं चैतद् द्वितीयम् । यच्च तिर्यगादेः प्राग्जन्मोपात्तं तिर्यक्त्वाद्यशुभभावाऽनुभवननिमित्तमनन्तरं च नरकादिहेतुः तत्तृतीयम् । तदनन्तरं देवादिगतिपरम्परानिमित्तं चैतच्चतुर्थमिति । यदाह
२६८
·
=
प्रति प्रत्याशा । किंरूपोऽसौ कल्प इत्याह, तीर्थकृतस्तीर्थंकरस्य सम्बन्धि तीर्थकरत्वनिबन्धनं यन्नामाख्यं कर्म-दृष्टं तत्तथा तस्य तीर्थकृन्नामकर्मणः, उदयात् = विपाकात्, सर्वसत्त्वानां सकलशरीरिणाम्, इह च हितशब्दयोगेऽपि न चतुर्थी, सम्बन्धस्यैव विवक्षितत्वात्, हिते एव = अनुकूलविधावेव, इह यदिति शेषो दृश्यः तेन यदेतत् प्रवर्तते व्याप्रियते भगवानिति। ततश्चास्य दानात् कल्पपरिपालनं विना नान्यत्फलमस्तीति भावना ← (अष्टकवृत्ति - २९ / २ ) इति ।
उपलक्षणाद् धर्माङ्गख्यापनाद्यर्थमपि तद्दानमवसातव्यम् । तदुक्तं अष्टकप्रकरणे एव धर्माङ्गख्यापनार्थञ्च दानस्यापि महामतिः । अवस्थौचित्ययोगेन सर्वस्यैवानुकम्पया ।। शुभाशयकरं ह्येतदाग्रहच्छेदकारि च । तदभ्युदयसाराङ्गमनुकम्पाप्रसूति च ।। ← ( अष्टक. २७/७-८)
युक्तञ्चैतत्, अन्यथा धर्मदेशनादानादितोऽप्यमहत्त्वापत्तेः, तस्यापि जिननामविपाकोदयोपहितत्वात्, → तं च कहं वेइज्जइ ? अगिलाए धम्मदेसणाईहिं ← ( आ.नि. १८३ ) इति आवश्यकनिर्युक्तिवचनात् ।
वस्तुतस्तु कथञ्चिदकृतार्थत्वेऽपि न भगवन्माहात्म्यक्षतिः, ध्वस्तदोषत्वस्य महत्पदप्रवृत्तिनिमित्तस्य प्रागुक्तप्रमाणसिद्धस्य तत्राऽबाधात् । कृतार्थत्वमात्रस्य महत्त्वप्रयोजकत्वे तु सम्पन्नधनार्जन-परिणयन-पुत्र पौत्रादिपरिवार-जननीजनकसेवा-यशः कीर्त्तिप्रसर-स्वशक्त्यनुरूपधर्मप्रवृत्ति-शक्यपरोपकारादिसमस्तप्रयोजनानां श्रेष्ठयादीनामपि प्रकृते महत्त्वापत्तेरिति दिक् ।
प्रसङ्गसङ्गत्या पुण्यादिप्रकारमाह- ' चत्वार' इति । यथाक्रममत्र भरतचक्रवर्ति-ब्रह्मदत्तचक्रवर्तिचाण्डाल- चण्डकौशिकाद्युदाहरणानि भावनीयानि । 'ज्ञानाऽन्वितनिर्निदानकुशलानुष्ठान-२ निदानाज्ञानदूषितधर्मानुष्ठान- महाप्राणातिपातादि- 'विराधनादिमिश्रनिर्निदानादिकुशलानुष्ठानानि यथाक्रममेतेषां बाहुल्येन
=
•
For Private & Personal Use Only
=
पुण्य-पापना डुस यार प्रहार संभवी शडे छे. (१) पुण्यानुबंधी पुएय (२) पापानुबंधी पुरुय. (૩) પાપાનુબંધી પાપ (૪) પુણ્યાનુબંધી પાપ. પુણ્યાનુબંધી પુણ્ય મનુષ્ય વગેરેને હોય છે. પૂર્વજન્મમાં ભેગું કરેલ મનુષ્યત્વ વગેરે શુભ ભાવોના હેતુભૂત કર્મ કે જે પછીથી દેવાદિ શુભગતની પરંપરાનું કારણ છે તે પુણ્યાનુબંધી પુણ્ય જાણવું. તથા જો એ કર્મ પાછળથી દૈવાદિગતિના બદલે નરકાદિ અશુભગતિની પરંપરાનું કારણ હોય તે પાપાનુબંધી પુણ્ય જાણવું. તથા પશુ વગેરેને પ્રાયઃ પાપાનુબંધી પાપ જાણવું. તે આ રીતે- પૂર્વજન્મમાં ભેગું કરેલ કર્મ કે જે વર્તમાનમાં તિર્યંચ ગતિ વગેરેરૂપ અશુભ ભાવોના અનુભવનું કારણ બને અને પછી નરક વગેરે વધુ અશુભતિનો હેતુ હોય તે પાપાનુબંધી પાપ. તથા પછીના ભવમાં દેવાદિ શુભ ગતિની પરંપરાનું કારણ હોય તે પાપાનુબંધી પુણ્ય જાણવું. १. 'हेत्वनन्तरं ' इत्यशुद्धः पाठो मुद्रितप्रतौ ।
Jain Education International
www.jainelibrary.org