________________
• उदयनाचार्यानुमानमीमांसा •
२४७ 'ब्रह्माण्डादिधृतिः प्रयत्नजन्या, धृतित्वात्, घटादिधृतिवत्' इत्यनुमानाद् ब्रह्माण्डादिधारकप्रय
ननु दृष्टविपरीतकल्पनभिया निराश्रयगुणकल्पना न श्रेयसीति चेत् ?, तर्हि तत्र नित्यज्ञानेच्छाकृत्यशरीरत्वादिकमपि कथं कल्पनीयं नैयायिकेन ? अभिहितश्चायमों → बुद्धिश्वेश्वरस्य यदि नित्या व्यापिकैका चाभ्युपगम्येत तदा सैवाचेतनपदार्थाधिष्ठात्री भविष्यतीति किमपरतदाधारेश्वरपरिकल्पनया ? ( (सं.त.१/१/१/पृ.१२७-पं.२५) इत्यादिना सम्मतितर्कटीकायाम् ।
ननु विनश्यद्गुणेषु व्यभिचारात् मास्तु साश्रयकत्वव्याप्यतावच्छेदकत्वं गुणत्वस्य, नित्यगुणत्वस्य तु तथात्वे बाधकाऽभावात्, जलीयपरमाणुरूपादौ तथैवोपलब्धेरिति नित्यप्रत्यक्षाऽऽश्रयविधयेश्वरसिद्धिरनाविलैवेति चेत् ? तथापि जीवात्मान एव तदाश्रया भवन्तु, किं शिपिविष्टकल्पनाकष्टेन ? इत्थञ्च → आत्मैव देवताः सर्वाः सर्वमात्मन्यवस्थितम् - (म.स्मृ.१२/११९) इति मनुस्मृतिवचनमप्युपपद्येत ।
‘अथ जीवात्मनां तदाश्रयत्वे शुक्त्यादौ रजतादिभ्रमः कदापि न स्यात्, तत्र रजताऽभाववत्ताधियः सदा सत्त्वादिति चेत् ? न, प्रतिबन्धकतावच्छेदककोटाववश्यनिवेशनीयस्य चैत्रीयत्वादेरेव तत्राऽभावात् । अवच्छेदकतया चैत्रादिविशिष्टत्वं हि तत्, न च तन्नित्यज्ञाने सम्भवतीति । न च जीवात्मवृत्तित्वेऽनेकात्मसम्बन्धकल्पनागौरवादेकेश्वरसम्बन्धकल्पनैव लघीयसीति वाच्यम्, त्वया तत्र जीवात्मनां स्वसंयुक्तसंयुक्तसमवायसम्बन्धः कल्पनीयो, मया तु समवायमात्रमिति प्रत्युत लाघवात् । अथैवमेतस्य 'नित्यमेकमनेकसमवेतं सामान्यमिति सामान्यलक्षणप्राप्तौ गुणत्वव्याघात इति चेत् ? किमिदं लक्षणं तव वेदः ?, येन तदुच्छेदे खेदः ।
यत्तु- 'चैत्रस्य मैत्रस्य वा तदाश्रयत्वमित्यादिविनिगमनाविरहादेकस्येश्वरस्यैव तदाश्रयत्वं युक्तमिति' तन्न, सकलजीवाऽऽत्मवृत्तित्वेऽपि बाधकाऽभावात् । अथैवमस्मदादीनां तत्प्रत्यक्षं कुतो न भवतीति चेत् ? लौकिकविषयिताऽभावात् निर्विकल्पकवत् । 'द्वित्वजनकतावच्छेदिका लौकिकविषयिता तत्र बाढमस्त्येवेति चेत् ? किं तावता । इन्द्रियसंनिकर्षादिजन्यतावच्छेदिकाया एव तस्याः प्रत्यक्षतायां तन्त्रत्वादित्येके |
'ताद्रूप्येण तद्विषयस्याऽहेतुत्वान्न तत्प्रत्यक्षमित्यन्ये । विषयतया प्रत्यक्षमात्रकारणीभूतगुरुत्वाद्यन्यतमभेदाभावादि'त्यपरे । संयोगत्वाऽवच्छेदेन द्रव्यस्य हेतुताग्रहादजसंयोग इव ज्ञानत्वाद्यवच्छेदेनाऽऽत्मादिहेतुताग्रहान्नित्यज्ञानादिकमपि न सिध्यतीत्यपि कश्चिदित्यधिकं मध्यमस्याद्वादरहस्ये (भा.२/का.५-पृ.४२१४२७-दिव्यदर्शनट्रस्टप्रकाशित-स्याद्वादरहस्ये) ।।४/११।।
अथ → कार्याऽऽयोजन-धृत्यादेः पदात् प्रत्ययतः श्रुतेः। वाक्यात् सङ्ख्याविशेषाच्च साध्यो विश्वविद-व्ययः ।। - (न्या.कु.५/१) इति न्यायकुसुमाञ्जलिकृत उदयनाचार्यस्य मतमनुसृत्य नैयायिकेनोच्यतेब्रह्माण्डादिधृतिः प्रयत्नजन्या, धृतित्वात्, घटादिधृतिवत् । यथाऽस्मदादिहस्तगतस्य गुरुत्वशालिनो घटादेः
બ્રહ્માંડબ્રતિમીમાંસા હવે તૈયાયિક ઈશ્વરસિદ્ધિ બીજી રીતે કરે છે. ઉદયનાચાર્યએ ન્યાયકુસુમાંજલિ ગ્રન્થના પાંચમા સ્તબક માં ૧૦ હેતુ દ્વારા ઈશ્વરસિદ્ધિ કરેલી છે. તેમાં એક અનુમાન આ રીતે આવે છે કે – બ્રહ્માંડ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org