SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ १६८ • त्यक्तगुरुकुलवासानां सर्वविरतिपरिणामाऽसम्भवः • द्वात्रिंशिका - ३/१९ ये स्वमत्या विजिहीर्षवो गीतार्थनिवारिताः प्रत्यावर्तन्ते, तेऽपि ज्ञानादिसम्पद्भाजनं भवन्ति', अपरे तु ज्ञानादिगुणेभ्योऽपि भ्रश्यन्तीति । तदिदमाह पायं अभिन्नगंठी तमाउ र तह दुक्करं पि कुव्वंता । अज्ञानात् तथा = = = 'बज्झव्व ण ते साहू धंखाहरणेण विन्नेया ।। ( पञ्चा. ११/३८) भवन्तीति । कथं तर्हि ते दुष्करतराणि तपांसि सेवन्त इत्याशङ्क्याह तमसः = तत्प्रकारं मासक्षपणादि दुष्करमपि = प्रकृष्टमपि, आस्तामदुष्करं कुर्वन्तः विदधानाः बाह्या इव कुतीर्थिका इव न नैव ते गुर्वाज्ञाकारिणः साधवः = संयता विज्ञेयाः ज्ञातव्याः, जिनाज्ञोत्तीर्णत्वात् । इहैवार्थे दृष्टान्तमाह ध्वाङ्क्षोदाहरणेन = काकज्ञातेन ← ( पञ्चा. ११/३८) इति । काकोदाहरणं तु भावितमेव ग्रन्थकारैरेव टीकायाम् । अत्र च गड्डरिकाप्रवाहन्यायोऽपि लब्धावसरोऽवसेयः । → गड्डलिकानां अवीनां सङ्घादेका चेद् नद्यादौ पतति तदा तत्सङ्घान्तर्गताः सर्वा अपि वार्यमाणा अपि तत्र पतन्तीति लोकप्रसिद्ध्या यत्र वार्यमाणानामपि अनिष्टमार्गे धावनं तत्राऽस्य प्रवृत्तिः ← ( वाच. पृष्ठ- २१४ ) इति वाचस्पत्यम् । अत्र केचित् “गुरुभक्तिमतामप्यपवादसेवनभीरुतया त्यक्तगुरुकुलवासानामगीतार्थानामाज्ञारुचिता केषाञ्चित् सर्वविरतिपरिणामोऽपि सम्भवतीति 'प्रायो' ग्रहणम् । प्रकृते 'प्रायोऽव्रता' इत्यन्वयः कार्यः, अभिन्नग्रन्थिपदं च बाह्यविशेषणतया योज्यम् । ततश्चातिदुष्करमपि कुर्वन्तो मूढाः स्वयूथ्या ध्वाङ्क्षज्ञातेन अभिन्नग्रन्थयः बाह्या इव प्रायोऽव्रता दर्शिता इति सण्टङ्कः । पञ्चाशकेऽपि 'पायं ण ते साहू, अभिन्नगंठी बज्झव्व' (पञ्चा. ११/३८) इत्यन्वयः कार्यः । इत्थमेवैषां केषाञ्चिद् व्याख्याप्रज्ञप्तिप्रदर्शितदेशाऽऽराधकत्वसम्भवात् सर्वविरतिपरिणामो न व्याहन्यते” इत्याहुः । वस्तुतस्तु “ शुद्धोञ्छादिकृते त्यक्तगुरुकुलवासानां साधुत्वं कुतीर्थिकानामिव नैव सम्भवति, यतः प्रायस्तेऽभिन्नग्रन्थयः । कदाचिद् भिन्नग्रन्थित्वं तु स्यादपि नैव स्यात्तु तेषां तदानीं सर्वविरतिपरिणाम आज्ञारुचिसम्यक्त्वपरिणामो वा उपदेशपदवृत्तौ ( उप.प. ६७६ वृ.) गुरुकुलवासत्यागस्य मिथ्यात्वमोहनीજે નાના દોષો લાગે તેના ડરથી જેઓ પોતાની બુદ્ધિથી ગીતાર્થનિશ્રાને છોડી સ્વતંત્ર વિહાર કરવાની ઝંખના રાખે છે. તેઓને ગીતાર્થ સાધુઓ ગીતાર્થનિશ્રાને ન છોડવા સમજાવે છે. તેમાંથી જેઓ ગીતાર્થની સલાહથી સુવિહિત સમુદાયમાં પાછા ફરે છે તેઓ પણ (પાણી પામનાર આજ્ઞાંકિત પ્રથમપંક્તિના કાગડાઓની જેમ) જ્ઞાન વગેરે સંપત્તિને પ્રાપ્ત કરે છે. જેઓ સ્વતંત્ર વિહારથી પાછા નથી ફરતા તે અગીતાર્થ યથેચ્છ યતિઓ જ્ઞાન વગેરે ગુણથી પણ ભ્રષ્ટ થાય છે. માટે જ પંચાશકજીમાં શ્રીહરિભદ્રસૂરિજીએ જણાવેલ છે કે ‘દુષ્કર તપ કરવા છતાં પણ પ્રાયઃ સ્વચ્છંદ સાધુઓ અનાદિકાલીન મિથ્યાત્વથી વ્યાપ્ત છે, ગ્રન્થિભેદ કર્યા વગરના છે, સમગ્ર ભવચક્રમાં એક પણ વાર સમકિતની સ્પર્શના કર્યા વગરના છે. બાહ્ય તાપસ વગેરેની જેમ તેઓ સાધુ નથી. આ વાત કાગડાના ઉદાહરણથી જાણવી.' १. हस्तादर्शे 'भवन्तु' इति अशुद्धः पाठः । = = २. प्रायोऽभिन्नग्रन्थयस्तमसस्तथा दुष्करमपि कुर्वन्तः । बाह्या इव न ते साधवः ध्वांक्षोदाहरणेन विज्ञेयाः ।। ३. मुद्रित 'तवाइ' इत्यशुद्धः पाठः । ४. हस्तादर्शे 'बज्झव्व' नास्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy