SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ ७० • वर्जनाभिप्रायस्योत्तेजकताविचारः • द्वात्रिंशिका-१/३१ अत एव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्य अपि तद्धानस्यानुपपत्तेः । स्यादेतत् वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत वर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाघवमिति ? ननु मास्तु वर्जनाभिप्रायेण विराधनाया जीवघातपरिणामजन्यत्वस्य परित्यागः किन्तु 'इयं जीवविराधना जीवघातपरिणामजन्या' इत्येवंस्वरूपायाः प्रमितेः प्रतिबन्धस्तु वर्जनाभिप्रायेण कर्तुं शक्य एव । स एव च विराधनास्वरूपपरित्याग इति पराशङ्कायां ग्रन्थकृदाह- अत एव = प्रकृतविराधनाव्यक्तौ जीवघातपरिणामजन्यत्वस्याऽसत्त्वादेव तत्प्रकारकप्रमितिप्रतिबन्धरूपस्यापि = ‘इयं जीवविराधना जीवघातपरिणामजन्या' इत्येवं प्रकृतविराधनाविशेष्यक-जीवघातपरिणामजन्यत्वप्रकारिकायाः प्रमायाः प्रतिरोधात्मकस्यापि तद्धानस्य = जीवविराधनास्वरूपपरित्यागस्य अनुपपत्तेः = असम्भवात् । न हि प्रकृतविराधनास्थले 'इयं जीवविराधना जीवघातपरिणामजन्या' इति प्रमितिः सम्भवति कस्यचित्, येन तत्परित्यागाय वर्जनाभिप्रायः सफलतामास्कन्देत् । ततश्च वर्जनाभिप्रायेण प्रकृतविराधनायां न जीवघातपरिणामजन्यत्वत्यागो न वा जीवघातपरिणामजन्यत्वप्रकारकप्रमितिप्रतिरोधः कर्तुं शक्यते । अतो न स्वनिरूपितजन्यतासम्बन्धेन जीवघातपरिणामविशिष्टविराधनात्वेन निर्जरां प्रति प्रतिबन्धकत्वकल्पना युक्तिमतीति फलितम् । परः कल्पान्तरमावेदयति - स्यादेतत् । वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन जीवृविराधनायाः वर्जनाभिप्रायजन्यां निर्जरां प्रति प्रतिबन्धकत्वे स्वीक्रियमाणे न कोऽपि अतिव्याप्त्यादिलक्षणो दोषः । वर्जनाभिप्रायस्य निर्जरां प्रति उत्तेजकत्वात् तदभावविशिष्टाया एव विराधनायाः प्रतिबन्धकत्वं न्यायप्राप्तम्। प्रकृतकल्पे लाभमाविष्करोति प्रत्युतेति वैपरीत्यबोधनाय । वर्जनाभिप्रायस्य निर्जरां प्रति पृथक्कारणत्वाऽकल्पनात् = स्वातन्त्र्येण हेतुत्वानभ्युपगमात् लाघवं = कारणसङ्ख्यालाघवम् । युष्माकं वर्जनाभिप्राये स्वतन्त्रतया कारणत्वं निर्जरां प्रत्यभ्युपगन्तव्यम्, अस्माभिस्तु प्रतिबन्धकाभावघटकाभावप्रतियोगिविधयेति लाघवं स्पष्टमेवेति पराऽऽकूतम् । જન્યત્વનો ત્યાગ છે. હું તો તેનું સમાધાન એ છે કે પ્રસ્તુત આપવાદિક જીવવિરાધનામાં પરમાર્થથી જીવઘાતપરિણામજન્યત્વ જ ન હોવાથી “આ જીવવિરાધના જીવઘાતપરિણામજન્ય છે.” - એવી જીવઘાતપરિણામજન્યત્વપ્રકારક જીવવિરાધનાવિશેષ્યક સત્યબુદ્ધિનો = પ્રમાનો ઉદય જ શક્ય નથી. તેથી “તેના ઉદયને અટકાવવાનું કાર્ય વર્જનાભિપ્રાય કરે છે.” - એવું કહેવું પણ અસંગત છે આથી જ જીવવિરાધનામાં રહેલ જીવઘાતપરિણામજન્યત્વનો ત્યાગ = “આ જીવવિરાધના જીવઘાતપરિણામજન્ય छ.' - मेवी सत्यबुद्धिनी परिर" - भाjj ५९॥ असंगत ४ जने छ. पूर्वपक्ष :- स्यादेतत् । ईनामिप्रायन अमावा. विशिष्ट सेवा विराधनाने नि२प्रत्ये प्रति માનવામાં ઉપરના કોઈ પણ દોષને અવકાશ રહેશે નહિ. ઊલટું, વર્જનઅભિપ્રાયને નિર્જરા પ્રત્યે સ્વતંત્ર કારણ માનવાની આવશ્યકતા ન રહેવાથી કારણની સંખ્યામાં લાઘવ થશે. (કહેવાનો આશય એ છે કે સૂર્યકાન્ત મણિ સ્વરૂપ ઉત્તેજકના અભાવથી વિશિષ્ટ એવો ચંદ્રકાંત મણિ જેમ અગ્નિજન્ય દાહ પ્રત્યે પ્રતિબંધક છે. એવું નૈયાયિકદર્શનમાં પ્રસિદ્ધ છે. અને તેવું માનવાથી અગ્નિજન્ય દાહ પ્રત્યે સૂર્યકાન્ત મણિને સ્વતંત્ર કારણરૂપે માનવાનું ગૌરવ થતું નથી. બરોબર તે જ રીતે વિરાધનાવર્જનઅભિપ્રાય સ્વરૂપ १. मुद्रितप्रतौ 'तदान...' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004938
Book TitleDwatrinshada Dwatrinshika Prakran Part 1
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages478
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy