________________
| मंगल स्तोत्र
© ॐ मंगलं भगवान् वीरो, मंगलं गौतमः प्रभुः 2 मंगलं स्थूलिभद्राया, जैनो धर्मोस्तु मंगलं ॥ १
नाभेयाद्या जिनाः सर्वे, भरताद्याश्चक्रवर्तिनः । कुर्वन्तु मंगलं सर्वे, विष्णवः प्रतिविष्णवः ॥ २ * नाभिसिद्धार्थभूपाद्या, जिनानां पितरस्तु ये
पालिताखंडसाम्राज्या, जनयंतु जयं मम ॥३
मरुदेवी त्रिशलाद्या, विख्याता जिनमातरः * त्रिजगजनितानंदा,, मंगलाय भवंतु मे ॥ ४
पुंडरीकगौतमाद्याः, प्रमुखा गणधारिणः ६ श्रुतकेवलिनोऽन्येपि, मंगलाय दिशंतु मे ॥५
ब्राह्मीचंदनवालाद्या, महासत्यो महत्तराः अखंडशीललीलाढ्या, यच्छन्तु मम मंगलं ॥६ चक्रेश्वरीसिद्धायिका-मुख्याः शासनदेवताः सम्यग् देव्यो विघ्नहरा, रचयंतु जयश्रियं ॥७ कपर्दिमातंगमुख्या, यक्षा विख्यात विक्रमाः । जैनविघ्नहरा नित्यं, देयासुमंगलानि मे ॥८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org