________________
श्री शत्रुंजय - स्तोत्रम् | ( शार्दूलविक्रीडित वृत्तम् ) पूर्णानन्दमयं महोदयमयं कैवल्य चिह्नमयं, रूपातीतमयं स्वरूपरमणं स्वाभाविकी श्रीमयम् । ज्ञानोद्योतमयं कृपारसमयं स्याद्वादविद्यालयं, श्रीसिद्धाचलतीर्थराजमनिशं वन्देऽहमादीश्वरम् ॥ १॥ ( उपजाति-वृत्तम् )
श्रीमद्युगादीश्वरमात्मरूपं, योगीन्द्रगम्यं विमलादिसंस्थम् । सज्ज्ञान - सद्द्दष्टिसुदृष्टलोकं, श्रीनाभिसूनुं प्रणमामि नित्यम् ||२|| राजादनाधस्तनभूमिभागे, युगादिदेवांहिसरोजपीठम् । देवेन्द्रवन्द्यं नरराजपूज्यं, सिद्धाचलाग्रस्थितमर्चयामि ॥ ३ ॥ आदिप्रभोदक्षिणदिग्विभागे, सहस्रकूटे जिनराजमूर्तीः । सौम्याकृतीः सिद्धततिनिभाव, शत्रुंजयस्था: परिपूजयामि ||४|| आदिप्रभोर्वक्त्रसरोरुहाच्च, विनिर्गतां श्रीत्रिपदीमवाप्य । यो द्वादशाङ्गीं विदधे गणेशः, स पुण्डरीको जयताच्छिवाद्रौ ||५|| चउद्दसाणं सयसंखगाणं, बावन्नसहियाण गणाहिवाणं । सुपाउआ जत्थ विरायमाणा, सत्तुंजयं तं पणमामि निच्चं ॥ ६ ॥ चत्तट्ठकम्मा परिणामरम्मा, लद्धप्पधम्मा सुगुणोहपुण्णा । चत्तारि अट्ठा दस दुनि देवा, अट्ठावए ताइ जिणाइ वंदे ॥ ७ ॥ अनंतनाणीण अनंतदंसिणो, अनंतसुक्खाण अनंतवीरिणो । वीसं जिणा जत्थ सिव पवना, संमेयसेलं तमहं थुणामि ॥ ८ ॥ जत्थेव सिद्धो पढमो मुणिदो, गणाहिवो पुंडरीओ विसिट्ठो । अणेगसाहुपरिवारसंजुओ, तं पुंडरीयाचलमंचयामि ॥९॥
( मालिनी - वृत्तम् )
विमल गिरिवतंसः सिद्धिगङ्गाम्बुहंसः, सकलसुखविधाता दर्शन - ज्ञानदाता | प्रणतसुरनरेन्द्रः केवलज्ञानचन्द्रः, सृजतु मुदमुदारं नाभिजन्मा जिनेन्द्रः ॥ १० ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org