SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः बन्दिनो गायनान् विप्रान् याचकानपरानपि । आशीर्वचनवाचालानखिलानप्यतोषयत् ॥२७७ || ततः सहजपालाद्यास्तनया विनयान्विताः । क्षीरेण क्षालयामासुः क्रमादात्मपितुः पदौ ॥ २७८ ॥ 5 तृतीये दिवसे देवभोज्यं साधुरकारयत् । तत्रेच्छाभक्तपानाद्यैः साधवः प्रतिलाभिताः ॥ २७९ ॥ पौरपञ्चसहस्राणि तत्राभुञ्जत भक्तितः । अवारितसत्रागारे लोकसंख्या न विद्यते ॥ २८०॥ सप्तविंशतिलक्षाणि सहस्राणि च सप्ततिम् । १९२ 10 तीर्थोद्धारे व्ययति स्म देसलः संघनायकः ॥ २८९ ॥ कृतकृत्यं मन्यमानः स्वं संघ [घाधि ] पतिदेसलः । धर्मकर्मरतो नित्यं गृहकार्योद्यतोऽभवत् ॥ २८२ ॥ स्मरोऽपि राजसन्मानसंवर्द्धितमहोन्नतिः । परोपकारसाराणि वासराण्यत्यवाहयत् ॥ २८३॥ 15 पञ्चसप्ततिसंख्येऽब्दे देसलः पुनरप्यथ । सप्तभिः संघपतिभिरन्वितो गुरुभिः सह ॥ २८४ ॥ महातीर्थेषु सर्वेषु सहस्रद्वितयेन सः । सार्धं याति करोति स्म द्विर्यात्रामेष पूर्ववत् ॥ २८५ ॥ व्ययितास्तत्र यात्रायां लक्षा एकादशाधिकाः । 20 द्विवल्लक्यद्रम्मसत्काः स्वयं देसलसाधुना ॥ २८६ ॥ तदा सुराष्ट्रादेशेषु म्लेच्छबद्धं स्मरोऽखिलम् । जनं विमोच्य जीमूतवाहनोऽभवदुच्चकैः ॥२८७॥ श्रीसिद्धयः स्वायुर्ज्ञात्वा मासत्रयावधि । देसलं प्रोचिरे साधो ! तवाप्यस्त्येकमासिकम् ॥२८८॥ 25 तदूकेशपुरे गत्वा कक्कसूरिमहं स्वयम् । चतुष्किकायां मुख्यायां स्थापयिष्ये समाधिना ॥ २८९ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy