SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ १८४ 10 नाभिनन्दनोद्धारप्रबंधः संघाधिपो विधुविभास्वरचारुकीर्तिः श्रीदेवपत्तनमियाय +समुत् सहायः ॥२०२॥ मुग्धराजनृपतिः स्मरसाधु ततो निशम्य निकटे समुपेतम् । तबिलोकनरसोल्लसदङ्ग __स्फारसारपुलकोऽजनि सद्यः ॥ २०३ ॥ श्रीसोमेश्वरश्च्छत्रचामरादिभिरन्वितः।। स नृपः सपरीवारः संघाभिमुखमाययौ ॥ २०४ ॥ समरो मुग्धराजश्च स्वहस्तोल्लासिताम्बरौ । द्वावप्यागत्य मिलितौ सूर्या-चन्द्रमसाविव ॥२०॥ मुग्धराजस्तमालिङ्गय संजज्ञे हर्षनिर्भरः तत्पृष्टकुशलः साधुः सुधामन इवाभवत् ॥ २०६ ॥ मिथोऽथ प्राभृतदत्तरादत्तस्तावुभावपि । मन्येतां शुभोदर्क प्रीतिमन्तौ स्वसङ्गमम् ॥२०७॥ 15 अथ श्रीदेसलः संघनाथः स्मरपुरस्सरः। स चतुर्विधसङ्घन सह देवालयेन च ॥ २०८ ॥ जटाधरेण मुख्येन तत्पुरस्सरगामिना । गण्डैश्च वर्धितोत्साहः स्वयमुत्सवकारिभिः ॥२०९॥ श्रीदेवपत्तनपुरे द्वारोत्तम्भिततोरणे । 20 लसत्पताके सर्वत्र शचीपतिरिवाविशत् ॥ २१० ॥ [ त्रिभिर्विशेषकम् ] श्रीसोमेश्वरदेवस्य पुरतः सम्मतः सताम् । हर्षेण मुग्धराजस्य सोत्सवं प्रहरं स्थितः ॥ २११ ॥ पूर्व सम्प्रति-शातवाहन-शिलादित्या-मराजादिभि25 भूपैरिधनाधिपैः कृतयुगोत्पन्नैश्च जैनैरपि । + मुदा सहितः समुत् , अयेन सह सहायः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy