________________
१५८
10
5 श्रीनेमिनाथं परिपूज्य तत्र श्रीदेसलः संघपतिः सपुत्रः I समुन्नतं पर्वतमारुरुक्षः
नाभिनन्दनोद्धारप्रबंधः
अथ पञ्चमः प्रस्तावः ।
अथ प्रभाते पुरपादलिप्तनिवासिनं पार्श्वजिनं प्रणम्य । वीरं च तीरेससोs (तीर्थेश्वरम ) र्चयित्वा शैलस्य मूलं स ययौ ससंघः ॥ १ ॥
20
शिवस्य सोपानममुं स मेने ॥ २ ॥ श्रीसिद्ध सूरिप्रभुदत्तहस्त
स्वहस्तसंयोजनतः स साधुः । द्विधाप्यधःपाततयेव मुक्त
स्तस्मिन्नसावारभताधिरोढुम् ॥ ३ ॥
यस्मिन्नशोकार्जुन देवदारु
रसाल-सालादिमहातरूणाम् ।
15 छायासु विश्रम्य भवस्य देह
स्यापि श्रमं भव्यजना नुदन्ति ॥ ४ ॥ यस्मिन् मयूरस्य रवं निशम्य
ग्रीवां निवृत्याथ विलोक्य नृत्यम् । तच्छिक्षणायाशु जना जिनाग्रे ।
कर्तुं तमध्यापकमामनन्ति ॥ ५ ॥ यस्मिश्च हारीत - चकोर - चाषशिखण्डि - कारंडव - सारसानाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org