________________
नाभिनन्दनोद्धारप्रबंधः तत्र देवालयस्तस्थौ संघनाथोऽपि देसलः । स्मरोऽपि सह संघेन पुनः पत्तनमागमत् ॥२७२।। गत्वा पौषधशालासु संघेन सहितः स्मरः । यात्रायै सर्वसुरीणां स क्षमाश्रमणं ददौ ॥२३७॥ 5 सर्वानभ्यर्थयामास श्रावकान् सादरः स्मरः ।
गत्वा प्रतिगृहं संघान्वितः साधुः सगौरवम् ॥२७॥ सगौरवं समाहूताः केऽपि केऽप्युत्सवोत्सुकाः । केऽपि यात्रारसोत्पन्नप्रमोदाङ्कुरधारिणः ॥२७॥
विधाय सर्वसामग्री स्वस्थानेभ्य उपासकाः । 10 समरस्य गुणाकृष्टा इव शीघ्रमुपाययुः ॥२७६॥
अगाधसर्वसिद्धान्तमहोदधितरीसमाः । [संधे आचार्या श्रीमद्विनयचन्द्राह्वा यात्रायै सरयोऽचलन् ॥२७७॥ मुनयश्च] बृहद्गच्छवियञ्चन्द्राश्चारुचारित्रधारिणः । अचलन् सह संघेन श्रीरत्नाकरसूरयः ॥२७८॥ श्रीदेवसरिगच्छीयाः सर्वत्र गरिमाशयाः । श्रीपद्मचन्द्रनामानः सूरयोऽपि सहाचलन् ॥ २७९ ॥ श्रीखण्डेरकगच्छीयाः श्रीमत्सुमतिसूरयः । जिनालोकोल्लसद्वाञ्छाश्चेलुः चञ्चलतोज्झिताः ॥२८०॥ भावडारकगच्छश्रीवदनस्य विशेषकाः । श्रीवीरवरयश्चेलुर्यात्रायां मुदिताशयाः ॥२८१॥ श्रीस्थारपद्रगच्छीयाः श्रीसर्वदेवसूरयः । चेलुब्रह्माणगच्छीयाः श्रीमजगतसूरयः ॥२८२॥ श्रीमन्निवृत्तिगच्छोया आम्रदेवाख्यसूरयः ।
चेलुयैर्दैसलस्यास्ति यात्राया रासकः कृतः ॥२८३॥ 25 श्रीनाणकगणव्योमाङ्गणभूषणभास्कराः ।
सिद्धसेनालयाचार्या दसलेन सहाचलन् ॥२८॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org