________________
तृतीयः प्रस्तावः ।
पुसां यथेच्छमन्यत्र कोट्या भोजितया फलम् । यदाप्यते तदत्रैकोपवासेनापि लभ्यते ॥९१॥ यानि कान्यपि तीर्थानि जयन्ति जगतीतले । तानि सर्वाणि दृष्टानि दृष्टेऽस्मिन् तीर्थनायके ॥९२॥ 5 वीक्षिते यत्र नरक - तिरश्चां गतिवारणम् । भाविनामभवन्नूनं कुदेव -कुनरत्वयोः ॥९३॥ हिंसाजुषोऽपि हिंसा (त्रा) द्यास्तीर्थेऽस्मिन् संस्थिताः सदा । यान्ति प्रभावादेवास्य सुगतिं गतकल्मषाः ॥९४॥ नुजन्मनः फलमिदं जीवितस्य धनस्य च । 10 शत्रुञ्जयगिरौ गत्वा यज्जिनेशो निरीक्ष्यते ॥९५॥ यदुपास्तिः तपो दानं श्रुतं शीलं जपक्रिया । क्रियमाणं सदाऽनंतफलमेतद्भवेदिह ॥९६॥ योऽत्राङ्गुष्ठमात्रमपि विम्बं स्थापयते सुधीः । स भुक्त्वा चक्रवर्त्यादिसमृद्धिं स्वर्गमाप्नुयात् ॥९७॥ 15 यत्र यक्षः कपर्धाक्षः ( ख्यः) श्रीनाभेयजिनेशितुः । सेवको भवति भव्यानां सन्ततं व्यक्तभक्तिमान् ॥९८॥ तदमुष्य मुख्यतीर्थनायकस्य क ईशते । प्रभाववर्णनां कर्तुं साधुसत्तमदेसल ! ||१९| तथाऽत्र वीरनिर्वाणात् सम्प्रतिर्नरनायकः । 20 विक्रम - पदलिप्ता -ऽऽम दत्ताः श्रीशातवाहनः ||१००|| उद्धारकारका एते परेऽपि बहवोऽभवन् ।
काले कलौ व्यधात् साधुरुद्वारं जावडिः पुनः ॥ [ युग्मम् ] सोऽकारयद्यथोद्धारं जावडिर्धार्मिकाग्रणीः । चतुर्थो जावडेरुद्धारः । यथाश्रुतमहं वक्ष्ये तं साधो ! शृणु सादरम् ||१०२ || 25 मधूकाव्यपुरे पूर्व प्रागवाट कुलसंभवः । जावडश्रेष्ठिनः सूनुः समजायत जाबडिः ॥१०३॥
Jain Education International
For Private & Personal Use Only
१११
www.jainelibrary.org