________________
नाभिनन्दनोद्धारप्रबंधः ।
सर्वकर्मकरेणासौ गरुडेन यथा हरिः ॥ ८३७॥ भोजनावसरेऽन्येद्युग्रमेशस्य गृहे मुनिः । मूतों धर्म इवागच्छन्मासक्षपणपारणे ॥ ८३८ ॥ तं वीक्ष्य जङ्गमं कल्पवृक्षं स्वगृहमागतम् । 5 नुदितो ग्रामनाथोऽपि मुनिसन्मुखमाययौ ॥ ८३९॥ हर्षप्रकर्षो दुसितगात्री ग्रामपतिर्मुनेः । निपत्य पादयोः पत्नीमादिदेशेति सादरम् ||८४०|| यदस्ति राद्धं क्षीरानं कान्तं कान्ते । तदानय । दत्तं यदस्मे पात्राय दानमानन्त्यमेति तत् ॥८४१ ॥ 10 साऽपि प्रमुदिता यत्क्षीरानं पुरतो मुनेः ।
मुमोच खण्डमाज्यं च सेवकेन समानयत् ||८४२ || सा प्रियेण समादिष्टा हृष्टा दातुं समुद्यता । पायसं परया भक्त्या विशुद्धं शुद्धभावना ||८४३ || साधुरस्याः पुरो दधे स्वपात्रं यानपात्रवत् । 15 संसारवारिधेरेतत्किलोत्ताराय कल्पितम् ||८४४|| सा सार्धं शर्कराज्याभ्यां पायसं परया मुदा । ददौ दापयिता भर्ता यच्छ यच्छेति वागभूत् ||८४५|| ददाना मुमुदे दानं दापयन्नेष तत्पतिः । चित्त-वित्त-पात्रयोगादुभाभ्यां पुण्यमर्जितम् ॥८४६॥ 20 मुमुदे ददती दानमाददानो मुनिस्तथा ।
धन्याऽस्मि दात्री धन्योऽहं हर्षिता मनसा मतिः ॥ ८४७ || सेवकोऽपि मुदा दानं तद्दत्तमनुमोदयन् । आर्जयत् पुण्यमतुल महोदानमहोऽद् भुतम् ||८४८॥ तस्य सत्पात्रदानेन दानराज्यस्य किं स्तुवे । 25 जगत्पूज्योऽपि यत्साधुः पुरो यस्य करप्रदः ||८४९|| अहो सत्पात्रदानस्य वलितं किंचिदद्भुतम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org