SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । गजादुत्तीर्य राजाऽपि कुमाराभिमुखं ययौ । तौ महीरावणो दध्यौ रूमी (?) इव मिमीलतुः ॥७३५॥ पपात तातपदयोः कुमारः सारभक्तिमान् । पिताऽपि वक्षसाऽऽश्लिष्य सुतं शीर्षे चुचुम्ब च ॥७३६॥ 5 पादौ ववन्दे स्वाम्बाया अम्बिकाया इवाग्निभूः । आश्लिष्यत् सुतमेषाऽपि सिञ्चन्ती संमुदाश्रुभिः ॥७३७॥ तन्मुदश्रुजलैजसे युक्तं रोमाङ्करोद्गमः । चित्रमेतत्तु यत्तस्य शोषिता शोकवल्लरी ॥७३८॥ अन्यासामपि मातृणां मुदितो न्यपतत् पदोः । 1.0 उत्तार्य न्युंच्छनान्यस्मै सर्वास्ता ददुराशिषः ॥७३९॥ अन्येऽपि स्वपरीवारवर्गः पौरजनोऽपि च । नमन् शंखेऽपि सर्वे(वी)ऽपि यथोचितमभाष्यत : ?) ॥७४०॥ चिरं जीव चिरं नन्द चिरं पालय मेदिनीम् । प्रवृद्ध(वर्ध)स्व समृद्धयेति स पौरैरभिनन्दितः ॥७४१ 15 श्वश्रूचरणयोः सर्वाः स्नुषास्तोषभृतान्तराः । विनता आशिषस्ताभिः प्रदत्ताः प्रतिपेदिरे ॥७४२॥ नरोत्तमनृपः पट्टहस्तिनं सह सूनुना । जये(यन्ते)नेव हरिईस्तिमलमारूढवानथ ॥७४३॥ उद्यद्ध्वानः स निःस्वानर्भरीमांकारहारिभिः । 20 वाद्यमानैर्महामानादित्रैरपरैरपि ७४४॥ बन्दिना जयनिर्घोषैर्हयहेषारवैरपि । दिशः शब्दमयीः कुर्वन् प्रविवेश पुरं नृपः ॥७४५॥ हर्षहास्योल्लसद्दन्तकान्तिविच्छुरिताधरम् । पुरंध्यो दर्शयामासुः कुमारं सस्पृहं मिथः ॥७४६॥ 25 सकटाक्षैर्मंगाक्षीणां क्षीरडिण्डीरसोदरैः। संलग्नैर्विशदाङ्गश्रीः [शंखः]शंख इवाभवत् ॥७४७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy