________________
७७
द्वितीया प्रस्तावः । सत्रैकं सौधमादाय कान्तयाऽसौ तया सह । निक्सन्नतुलं प्राप रति स्वेच्छां धनु(न)व्यये ॥६२०॥ नेहानुबन्धो दम्पत्योर्मियोऽनुरक्तयोस्तयोः। प्रमेणैकत्वमापन्नो गुह्यनाग इवाभवत् ॥६२१॥ 5 अन्यदा दैवयोगात् तत्कान्ता वातायनस्थिता । दरशे पोतनपुरस्वामिना जितशत्रुणा ॥६२२॥ सा तु मोहनवल्लीव तथा मोहयति स्म तम् । तथा भूपस्य तस्याभूत् तदेकरमरणं मनः ॥६२३॥
स्लीकटाक्षाः कालकूटं ततो वा विषमा हि ते । 10 उपभुक्ते विषे मोह एषु स्यादीक्षितेष्ववि ॥६२४॥
स्नीकटाक्षाः कालकूटादप्येते विषमा यतः। विषेहे विषमीशोऽपि न कटाक्षान् पुनः खियः ॥६२५॥ मोहावेशवशो राजा नाकु(क)लद्यत्कुलायशः ।
अपहार्य नरैरार्यामेतामन्तःपुरेऽक्षिपत् ॥६२६॥ 15 महाजनमुपादाय सूरदेवः प्रियाकृते ।
उपभूपमुपागत्य नत्वोचे रचिताअलिः ॥६२७॥ स्पृशन् परकलत्राणि महानप्यधमा दशाम् । अवाप्नोति यथा पूर्वमीश्वरोऽपि हि षण्ढताम् ॥६२८॥
सर्वेषां क्षेत्ररक्षायै भवान् वृतिरिवास्ति यत् । 20 स एवास्य कार्यस्य नाशकः शासकोऽस्तु सः (क)॥६२९॥
अन्यस्त्रीदुर्गतिद्वारदर्शने दीपिका विभो!। तदिय दूरतस्त्याज्यास्ततस्तापभयादिव ॥६३०॥ अकीर्तिपटहस्तस्य देव ! बभ्राम भूतले ।
परनारीमनीषाऽपि पुंसा येन विनिर्ममे ॥६३१॥ 25 पुरा देव ! दशास्योऽपि परपत्न्यपहारतः ।
असमर्थितवाञ्छोऽपि विपद्य नरके ययौ ॥६३२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org