________________
७२ नाभिनन्दनोद्धारप्रबंधः ।
सत्तोरणमणिश्रेणिमयूखैरुन्मुखैर्गतैः। विजितः(तस्वर्विमानो यः स्वाश्रियेवोरिछ्तभ्यजः ॥ दानवारिधितो ह्येष नैवमस्मीति चिन्तयन् । पातोबूतपताकाभिः स्वर्ग तर्जयतीव यः ॥५५६॥ 5 पश्चन्द्रोदयस्फारतारको गुरुवासितः । नभोदेश इवाभाति यः स्वयंवरमण्डपः ॥५५७॥ तत्र मञ्चेषु पञ्चेषुश्रियः सिंहासनासिनः। क्रमाहरशिरे भूपभुवा भूपतिसत्तमाः ॥५५८॥
दिव्याम्बरधरा दिव्यभूषणा दूषणातिगाः। 10 नृपा नृपसुताऽऽलोकोत्कण्डिता तस्थुरस्थिराः ॥५५९।।
तापसाताशया कन्या स्नाता श्वेतविलेपना। शेतवस्त्रावृता मुक्ताहारादिशुचिभूषणा ॥५६०॥ याण्ययानं समारुह्य हस्तन्यस्थ(स्त)सुमालिका ।
सवयोभिर्वयस्याभिवृता मण्डपमासदत् ॥५६१।। 15 वसुन्धरेव ध(ल)सन्मभ्यदेशा ललितकुन्तला।
दोषेष विस्फुरत्तारालोका सद्विजराजभा ॥५६२॥ वाद्धिवेलेव सन्नका हृद्यशीर्षा च शालिवत् । विलसत्कर्णगाङ्गेया या कौरवचमूरिव ॥५६३।।
एवमद्भुतरूपायां तस्यां भूपदृशः समम् । 20 धारा धराधरस्येव धरायां नि(न्य)पतन्नथ ॥५६४॥ करात्तवरमाला सा यावत्तिष्ठति मण्डपे । तावद्भ्येत्य तां कोऽपि जहे श्येनः खगीमिव ॥५६५॥ कन्येयं याति यातीति. दर्श(दृश्य)मानोन्मुखैर्नृपैः ।
अभूदद्दश्या सहसा यान्ती विद्युदिवाम्बरे ॥५६६॥ 25 अरिकेसरिराजाऽपि पुत्रीहरणदुःखतः ।।
व्याकुलो व्याजहारेदै रारामुरैः पुरो पचः ॥५६७॥
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org