________________
नामिनन्दनोखारप्रबंधः । वील्यामरमिवाध्यक्ष शंख सा भूरिवाभवत् । आनन्दरससंसिक्ता प्रोल्लसत्पुलकाङ्कुरा ॥५२९॥ क्षर्ण मन्दाक्षवैलक्ष्यलक्षिते क्षणमीक्षितः। तया शंख सुधाकुण्ड इवातुण्डं ममज सः ॥५३०॥ 5 अथ प्रोचे शुको भद्रे! तव प्राणप्रियो ह्ययम् । एतचिन्तित एवात्र तद्विधेहि यथोचितम् ॥५३॥ शंखोऽथ दर्शयन् स्नेहं तां प्रत्यूचे वरानने । त्वदुत्कण्ठित एवाहं स्मृतमात्र इहागमम् ॥५३२॥
साऽऽह स्वामिन् ! विलम्ब मा कुरु मामन्यतो नय । 10 ज्ञातं नृपेण चेदेतन्मृत्यु हो(नों)भविता तदा ॥५३३॥
शुकरूपं परित्यज्य यक्षः प्राह शुभे मम ।। त्वदर्थोऽयं प्रयासस्तदविलम्ब चल द्रुतम् ॥५३४।। हृत्वा कस्याप्यायुधानि धनुरादीनि यक्षराट् ।
रथं कस्यापि संनाह्य कुमारपुरतोऽनयत् ॥५३५।। 15 सुहृत्सूतं शस्त्रभृतं रथमारुह्य सप्रियः ।
निःससार कुमारोऽथ पुराद् यक्षसखो बहिः ॥५३६॥ तावच्छुद्धान्तं सैरन्ध्यो गत्वा राशे व्यजिज्ञापन् । कुतोऽप्यागत्य केनापि कुमारी हियते विभो! ॥५३७।।
राजाऽऽह स्वेच्छया यान्ती कुमारी शायतेऽथवा । 20 छलेनापहृता तद्वक्रियतेऽपक्रियोच्यताम् ॥५३८।।
सा देव! यान्ती हृष्टेव कुमारी विदितंगितैः । दासीभिरिति निर्दिष्टे स्पष्टमेतद्वचोऽवदत् ॥५३९।। पुरुषद्वेषिणी भूत्वा स्वयं चेद् भजते पतिम् ।
तदयं कासतो गण्डः स्फुटितः स्वयमेव हि ॥५४०॥ 25 तदानीय तमेवात्मसुतां तेन विवाहयेः ।
इसतो रदतो यः स्यादतिथिईसतोऽस्तु सः ॥५४१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org