________________
द्वितीया प्रस्तावः । पस्याश्रयं विना नारी सगुणाऽपि न शोभते । मुक्तस्त्रगिव भूभ्रष्टा स्त्रीकण्ठलुठनोचिता ॥४९०॥ न भ्राता न पिता तद्वत् स्त्रीणां स्यात् स्वार्थपूरकः । यद्वत् पतिर्जीवलोके नदीनामिव वारिदः ॥४९१॥ 5 तद् भद्रे! पुरुषद्वेषदोषाग्रहममुं त्यज । दुर्लभ मानुषं जन्म लब्ध्वा हारयसे कथम् ॥४९२॥ श्रुस्वेति कुमरी प्राह यदुक्तं म(मे)शुक! त्वया । परं तु नरनैर्गुण्यं मया प्रत्यक्षमीक्षितम् ॥४९३॥
यथा पूर्वभवे नन्दिग्रामेऽभूत्सद्धडो द्विजः। 10 तस्याहं गेहिनी नन्दाऽभूवं शुद्धकुलोद्भवा ॥४९४॥
भुक्ते भुक्तवती पस्यौ सुप्ते सुप्ता स्थिते स्थिता । कायच्छायेव सर्वत्राभूवं तदनुगामिनी ॥४९५॥ कदाचित्तत्र दुर्भिक्ष लोकस्याभाग्यतोऽभवत् ।
अमातपुत्रको यत्र जनोऽजायत दुःखितः ॥४९६॥ 15 अथ लोकः क्षुधाकान्तः कोऽपि क्वापि ययौ ततः।
यियासुमत्प्रियोऽप्यासीन्मां विहायान्यनीवृति ॥४९७॥ मयाऽभाणि प्रिय ! तु मां हित्वा किं गन्तुमर्हसि । न द्विजिह्वात्परः कोऽपि प्रियां कञ्चुलिकां त्यजेत् ॥४९८॥
इत्यादियुक्तिभिः सूक्तैश्चोक्तोऽनिच्छन्नपि प्रियः । 20 मयाऽन्वयायि यस्सन्ध्या न याति न रवि कथम् ॥४९९॥
व्रजन्नरण्यमन्येधुरनुरागवती सतीम् । मुक्त्वा सुप्तां निशि कापि ययावेकाकिनी स माम् ॥५००॥ सुप्तोत्थिताऽपि नापश्यं यावत् कचिदपि प्रियम् ।
पपात तावत्सहसा भूमौ भमेव वल्लरी ॥५०१॥ 25 मूर्छाऽपगमे न्यलपं मातस्तातेति हा प्रिय!।
मामनाथामरण्यानीमध्ये मुक्त्वा कथं गतः ॥५०२॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org