________________
नाभिनन्दनोखारप्रबंधः। किं वस्से ! भवती श्रुत्वा विदधे मुबमोटनम् । किमलीकमिदं प्रोक्तं किं वाऽन्यत्कारणं वद ॥१२९॥ सा प्राह पितरेते ते सेवादक्षाः सुसेवकाः । उचितं रुचितं यत्स्यात् स्वामिनां कथयन्ति तत् ॥१३०॥ 5 अतोऽसत्यममी सभ्याः सर्वथा कथयन्ति यत् ।
सर्वः पूर्वार्जितस्यैव कर्मणः फलमश्नुते ॥१३१॥ देवा अपि न यच्छन्ति पूर्वकर्माधिकं फलम् । किं पुनर्मानवा दधुरस्थिमांसप्रसेविकाः ॥१३२॥ यत उत्कम्
"धनिषु मुधा किमु धावसि तूष्णीमाध्वं न साध्विदं चरितम् । 10 विधिलिखिताक्षरमालं फलति कपालं न भूपालः" ॥१३३॥
तात! चेत् त्वत्प्रसादेन जायन्ते धनिमो जनाः । सदस्मिन्नगरे लोकाः कथं केचिद् दरिद्रिणः ॥१३४॥ दूरे सन्तु परे लोका ये नित्यं तातसेवकाः ।
तेऽपि सर्वे समानर्द्धिभाजो दृश्यन्त एव न ॥१३५॥ 15 यदेके त्वत्समा ऋदया वीक्ष्यन्ते सेवकेष्वपि ।
परे स्कन्धे वहन्ति त्वामुन्मिष्टं(च्छिष्ट)भुजते परे ॥१३६॥ एके दासत्वमालीना अन्ये ववों(वर्या)धिकारिणः । तदेवं तात ! सर्वोऽपि स्वकर्मफलमाप्नुयात् ॥१३७
येषां न भाग्यं तेषां तुन तातोऽपि समृद्धिदः । 20 अत्रान्ते शृणु दृष्टान्तमेकमेकाग्रमानसः ॥१३८॥
यथाऽभवद्राजपुत्रः कश्चिद्भाग्यविवर्जितः । भगिनी तस्य केनापि परिणीताऽस्ति भूभुजा ॥१३९॥ सा रूपेण जितप्रीतिः प्रीति पत्युरवर्धयत् । तस्या भ्राता तु निर्भाग्यः क्रमशो दुर्गतोऽभवत् ॥१४॥ 25 स विषीदन्नथ प्राप्त[:] भावुकस्य महीपतेः ।
समीपं भास्करस्येव क्षणे मीणयः शशी ॥१४॥
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org