SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः। तत्रास्ति दक्षिणश्रेण्यां वरं स्वर्णपुरं पुरम् । यद् विलोक्यालकावासे सुरा जाता निरादराः ॥१०३॥ तत्खेचरतृपो हेमरथः पालयते पुरम् । कीर्त्या यस्य प्रतापेन निर्जितौ शशि-भास्करौ ॥१०॥ 5 यो विद्याभिरनेकाभिः स्फूर्जदूर्जस्वलद्युतिः । मृगारातिर्जालिकाभिरिवाजेयोऽभवत्परैः ॥१०५॥ तस्त्रिया हेमभालाऽभूत् सतीजनमतल्लिका । यामलेनापि शीलेन कान्तचित्तमरञ्जयत् ॥१०६॥ सोऽन्यदा लोकवृत्तान्तमवलोकयितुं निशि । 10 संवचार पुरेऽश्रौषीत् श्लोकमेकं च कुत्रचित् ॥१०७॥ "सर्वत्र धवला हंसा मथूराश्चित्रिताः पुनः । सर्वत्र जन्म-मरणे भोगाः सर्वत्र भोगिनाम्" ॥१०८॥ श्रुत्वा तं नृपतिर्दध्यौ तथ्यमर्थत्रयं भवेत् । ई न घटते किन्तु यगोगा भोगिनां सदा ॥१०९॥ 15 भूपालोऽपि यतः पूजां स्वदेशे समवाप्नुयात् । परदेशगतः सोऽपि रकुवद् बाध्यते क्षुधा ॥११०॥ नूपप्रसादाद् रङ्कोऽपि सद्यो भवति भूपतिः । तत् श्लोकोक्तमिदं वाक्यं नैव सङ्गतिमङ्गति ॥१९॥ महाकविप्रणीतं तु कथं विघटते ततः । 20 यामि मुक्त्वा निजं राज्यं क्वचिदशातमण्डले ॥१२॥ तत्र चेदस्मि भोगानां संभविष्यामि भाजनम् । तदा सत्यमिदं वाक्यं यथा रत्नं परीक्षितम् ॥११॥ विचिन्त्येति राज्यभार मन्त्रिषु न्यस्य भूपतिः। एकाकी तत्पुरं त्यक्त्वा ययौ ताम्रपुरं क्षणात् ॥११४॥ 25 सुरूपेण सुवेषेण सर्वः सर्वत्र गौरवम् ।। समते तदई पूर्वावस्थां मुश्वामि सर्वथा ॥११५॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy