________________
नाभिनन्दनोद्वारप्रबंधः ।
प्रसन्नः प्राभृतैर्भूपः स्वागतप्रश्नवीक्षणैः । संतोष्य श्रेष्ठिनं पट्टवस्त्रादिभिरमानयत् ॥ ५१ ॥ पप्रच्छ च कुतः श्रेष्ठिन् ! किमर्थं त्वमिद्दागमः । ब्रूहि श्रेष्ठिगरिष्ठाशु किं करोमि तवेहितम् ॥५२॥ 5 श्रेष्ठ याह देव ! कीर्तिस्ते भ्राम्यन्ती भुवनेऽखिले । भट्टिनीव समाख्याति हृष्टा त्वद्गुणसौष्ठवम् ॥५३॥ तद् देव ! त्वद् गुणैः सर्वदेशेभ्यो निखिला जनाः । स्वयमेव समायान्ति बद्धा इव तवान्तिकम् ॥ ५४ ॥ तथाऽहं स्वद् गुणैर्बद्धो देवोकेशपुराद्वरात् । 10 निवास स्वत्पदोपान्ते कर्तुमस्मि समागतः ॥५५॥ मथो मिथोमिलद्दन्तकान्तिनेत्रनिरीक्षितैः । संसद विशदां कुर्वन्नाह साहसिको नृपः ॥५६॥ अद्यानवद्यवपुषा भवता समुपेयुषा । नृरत्नेन समुद्रेण सशोभ भविता पुरम् ॥५७॥ 15 एकेन राजहंसेन सरसः पार्श्ववर्तिना ।
यथाऽपूर्वा भवेच्छोभा तथा त्वयि समागते ॥५८॥ तवलंकुरु मे श्रेष्ठिन् ! नगरं करवर्जितः । प्रयोजनं च यत् किञ्चित् कथयेस्त्वं तदात्मनः ॥५९ ॥ नृपाप्रसस्या मुदितः श्रेष्ठी प्राह महीपते । । 20 मी शैर्गुणैर्युक्तं जगचेतांसि वद्धवान् ॥ ६०॥ तव प्रसन्नया दृष्टिवृष्टचैवास्मन्मनामही । सिक्ता रोमोद्रमव्याजादभूदंकुरिता विभो ! ॥ ६१॥ सप्रसादप्रियालापसुधान्तः प्रीणितो निजः । भाग्यभूमीरुहो भूप ! फलितः कलितो मया ॥ ६२ ॥ 25 अथैवं विदग्धालापपरयोः श्रेष्ठि-भूपयोः । द्रुतमेत्य प्रतीहारो व्यजिनपदिदं नतः ॥ ६३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org