________________
श्रीमुनिरत्नमूरिशिष्यविरचिता
श्रीआगमगच्छ-पट्टावली धन्यं दृष्टियुगं दिनं च सफलं प्रागादियं दुःषमा, चिचे प्रोल्लसितः प्रबोधदिवसः ध्वस्तं तमोमंडलम् । प्राप्तः कल्पतरुण हे सुरगवी चिंतामणिः स्वे करे, यदृष्टं गुरुराजवक्त्रकमलं संपूर्णचंद्रोपमम् ॥१॥ श्रीमद्वीरजिनात्मधर्मगणभृत् तस्माच जंबूस्तता, संख्यातेषु गतेषु मूरिषु भुवि “श्रीवज्रशाखा"ऽभवत् । तस्यां ' चन्द्रकुलं" मुनीन्द्रविपुलं तस्मिंश्च "सैद्धान्तिकाः", स श्रीशीलगणाऽधिपप्रभृतयः कुर्वन्तु वो मंगलम् ॥२॥ श्रीमान् शीलगणाधिपः प्रथमकः श्रीदेवभद्रप्रभुधर्मोद्धारधुरीणतां विधृतवान् श्रीधर्मघोषस्तथा । भद्रं श्रीयशसः पुरो गणधरं सर्वादिरानन्दकः, पूज्यास्तेऽमयदेवसरिगुरवः कुर्वन्तु वो मंगलम् ॥३॥ श्रीसिद्धांतविचारसारमतयः श्रीवज्रसेनाभिधाः, श्रीमन्तो जिनचंद्रसरिगुरवः श्रीहेमसिंहस्ततः । श्रीरत्नाकरसूरयो विनयसिंहाख्याः श्रताऽलंकृता, रम्यानध्यगुणा गुणादिकसमुद्राश्च प्रसीदंतु मे ॥४॥ श्रीमन्तोऽभयसिंहमूरिगुरवो बोधिप्रदा भाविनां, विद्यानंदितचित्तसोमतिलकः सूरीश्वरो वादिराट् । सूरि रिगुणोदयो विजयवान् श्रीसोमचंद्रस्तथा, तस्मात् श्रीगुणरत्नमरिगुरवः कुर्वन्तु वो मंगलम् ॥५॥ श्रीमत्संयमपालनकनिरतः सयानविद्याधरः, श्रीजेनस्मरणेन पापविरतः सिद्धांतशुद्धांतरः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org