________________
न योगा न रोगा न चोद्वेगवेगाः स्थिति! गति! न मृत्युर्नजन्म । न पुण्यं न पापं न यस्यास्ति बंधः स एकः परात्मा गतिर्मे जिनेन्द्रः ।।
- श्री सिद्धसेन दिवाकर
-
तुभ्यं नमस्त्रिभुवनार्तिहराय नाथ तुभ्यं नमः क्षितितलामलभूषणाय । तुभ्यं नमस्त्रिजगतः परमेश्वराय तुभ्यं नमो जिन भवोदधिशोषणाय ।।
- श्री मानतुंगाचार्य
भावावनामसुरदानवमानवेनचूलाविलोलकमला वलिमालितानि । संपूरिताभिनतलोक समीहितानि कामं नमामि जिनराजपदानि तानि ।।
__- श्री हरिभद्रसूरि
सकलार्हत् प्रतिष्ठानमधिष्ठानं शिवश्रियः । भूर्भुवः स्वस्त्रयीशानमार्हन्त्यं प्रणिदघ्महे ।। नामाऽऽकृति द्रव्यभावैः पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ।।
- श्री हेमचंद्राचार्य
श्रामण्ये वर्षपर्यायात् प्राप्ते परमशुक्लताम् । सवार्थ सिद्धदेवेभ्योऽप्यधिकं ज्योतिरुल्लसेत् ।।
- उपा. श्री यशोविजय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org