________________ (5) नेपथोयचरितम् :: एकविंशः सर्गः ) [ 639 जाह्नवीजलजकौस्तुभचन्द्रा * पादपाणिहृदयेक्षणवृत्तीन् / उत्थिताब्धिसलिलावयि लोला किं स्थिता परिचितान्परिचिन्त्य // 106 / / 5 वस्तु वास्तु घटते न भिदाना यौक्तनैक विधबाधविरोधैः / तत्त्वदीहितविजृम्भिततत्तभेदमेतदिति तत्त्वनिरुक्तिः / 107 / वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत्किल मृकण्डतनूजः / __ स्वं विमिश्रमुभयं न विविञ्च . निर्ययो स कतमस्त्वमवैषि // 108 / / ब्रह्मणोऽस्तु तव शक्तिलतायां मूनि विश्वमथं पत्युरहीनाम् / बालतां कलयतो जठरे वा सर्वथासि जगतामवलम्बः / 106 / धर्मबीजसलिला सरिदज्रावर्थमूलमुरसि स्फुरति श्रीः / / कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव // 110 / / लीलयापि तव नाम जना ये . गृह्णते नरकनाशकरस्य / तेभ्य एव नरकैरुचिता भी- . - स्ते तु बिभ्यतु कथं नरकेभ्यः // 111 / / मृत्युहेतुषु न वज्रनिपाता२० . भीतिमर्हति जनस्त्वयि भक्तः / यत्तदोच्चरति वैष्णवकण्ठा निष्प्रयत्नमपि नाम तव द्राक् // 112 / / सर्वथापि शुचिनि क्रियमाणे ___ मन्दिरोदर इवावकरा ये / 25 उद्भवन्ति भविनां हृदि तेषां . शोधनी भवदनुस्मृतिधारा ||113 / /