________________ (5) नंषघोयचरितम् :: एकविंशः सर्गः ] [ 635 लक्ष्मणक्षणवियोगकृशानौ यः स्वजीविततणाहुतियज्वा // 75 / / क्रौञ्चदुःखमपि वीक्ष्य शुचा यः श्लोकमेकमसृजत्कविराद्यः / स त्वदुत्थकरुणः खलु काव्यं श्लोकसिन्धुमुचितं प्रबबन्ध / / 76 / / विश्रवःपितृकयाप्तुमनहँ सश्रवस्त्वमनयेत्युचितज्ञः / कि चतिथ न शूर्पणखाया- ' लक्ष्मणन वपुषा श्रवसी वा // 77 / / ते हरन्तु दुरितव्रतति मे यैः स कल्पविटपी तव दोभिः / छद्मयादवतनोरुदपाटि स्पर्धमान इवं दानमदेन / / 78 / / बालकेलिषु तदा यदलावीः / कर्परीभिरभिहत्य तरङ्गान् / भाविबाणभुजमेदनलीला सूत्रपात्र इव पातु तदस्मान् / / 76 / / कर्णशक्तिमफलां खलु कर्तुं सज्जितार्जुनरथाय नमस्ते / केतनेन कपिनोरसिशक्ति . लक्ष्मणं कृतवता हृतशल्यम् // 80 // नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम् / मा स भूत्सुरवघूसुरतज्ञो दिव्यपि व्रतविलोपभियेति / / 81 / / घातितार्कसुतकर्णदयालुर्जेत्रितेन्दुकुलपार्थकृतार्थः / अर्धदुःखसुखमभ्यनयस्त्वं सास्र भानुविहसद्विधुनेत्रः / / 82 / / 25. प्रारणवत्प्रणयिराध ! न राधा पुत्रशत्रुसखिता सदृशी ते /