________________ (5) नैषधीयचरितम् :: एकविंशः सर्गः ] [ 631 दण्डवद्भुवि लुठन्स ननाम त्र्यम्बकं शरणभागिव कामः / मात्मशस्त्रविशिखासनबाणा न्यस्य तत्पदयुगे कुसुमानि / / 36 / / त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि / दण्डवद्भुवि लुठन्किमु कामस्तं शरण्यसुपगम्य ननाम / / व्यापृतस्य शतरुद्रियजप्तो पाणिमस्य नवपल्लवलीलम् / भृङ्गभगिरिव रुद्रपराक्षश्रेणिरश्रयत रुद्रपरस्य / / 40 / / उत्तमं स महति स्म महीभृत्पूरुषं पुरुषसूक्तविधानः / 10 द्वादशापि च स केशवमूर्तीादशाक्षरमुदीर्य ववन्दे / / 41 / / मल्लिकाकुसुमदुण्डुभकेन स भ्रमीवलयितेन कृते तम् / प्रासने निहितमैक्षत साक्षा- . त्कुण्डलीन्द्रतनुकुण्डलभाजम् मेचकोत्पलमयी बलिबन्धुस्त द्वलिस्रगुरसि स्फुरति स्म / कौस्तुभाख्यमणिकुट्टिमवास्तु श्रीकटाक्षविकटायितकोटि: // 43 / / स्वर्णकेतकशतानि स हेम्नः पुण्डरीकघटनां रजतस्य / मालयारुणमणे: करवीरं तस्य मूनि पुनरुक्तमकार्षीत् / / 44 / / . नाल्पभक्तबलिरन्ननिवेद्यस्तस्य हारिणमदेन स कृष्णः / / शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाभूत् / / 45 / / राज्ञि कृष्णलघुधूपनधूमाः पूजयत्यहिरिपुध्वजमस्मिन् / निर्ययुर्भवधृता भुजगा भीदुर्यशोमलिनिता इव जालैः / / 46 / / 25 अर्घनिःस्वमणिमाल्यविमिश्रः स्मेरजातिमयदामसहस्र / तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः / / 47 / / // 42 // 20