________________ 624 ] [ काव्यपटकं अम्बुनः शम्बरत्वेन मायैवाविरभूदियम् / / यत्पटावृतमप्यङ्गमनयोः कथयत्यदः / / 130 / / वाससो वाम्बरत्वेन दृश्यतेयमुपागमत् / चारुहारमणिश्रेणितारवीक्षणलक्षणा ||131 / / 5 ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः / तयोर्वोक्षारसात्सख्यः सर्वा निश्चक्रमुः क्रमात् / / 132 / / ता बहिय वैदर्भीमूचुनीतावधीतिनि ! / / उपेक्ष्ये ते पुन: सख्यौ मर्मज्ञे नाधुनाप्यमू / / 133 / / उच्चरूचेऽथ ता राजा सखीयमिदमाह वः / / 10 श्रुतं मम ममताभ्यां दृष्टं तत्त मयानयोः // 164 / / मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयो / प्रभ्यषिञ्चदिमे मायामिथ्यासिंहासने विधिः // 135 / / धौतेऽपि कीतिधाराभिश्चरिते चारुणि द्विषः। मृषामषोलवैर्लक्ष्म लेखितुं के न शिल्पिनः // 136 / / ते सख्यावाचचक्षाते न किंचिद् अवहे बहु। वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम् // 137 / / स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः / / कृतामपि तथावाचि करकम्पेन वारणाम् // 138 / / अपयातमितो धृष्टे ! घिग्वामश्लीलशीलताम् / इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भिया / / 136 / / आह स्म तद्गिरा ह्रीणां प्रियां नतमुखीं नलः / ईदृग्भण्डसखी कापि निस्त्रपा न मनागपि // 140 / / अहो ! नापत्रपाकं ते जातरूपमिदं मुखम् / नातितापार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः // 141 / / 25 तामथैष हृदि त्यस्य ददौ तल्पतले तनुम् / निमिष्य च तदीयाङ्गसौकुमार्यमसिस्वदत् // 142 / /