________________ 620 [ काव्यषटकं प्रस्मतं न त्वया तावद्यन्मोहन विमोहितः / प्रतृप्तोऽधरपानेषु रसनामपिबं तव // 78 / / त्वत्कुचानखाङ्कस्य मुद्रामालिङ्गनोत्थिताम् / स्मरैः स्वहृदि यत्स्मेरसखी: शिल्पं तवानवम् / / 76 / / 5 त्वयान्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः / वेत्सि तासां पुरो मू| त्वत्पादे यत्किलास्खलम् / / 80 / / वेत्थ मय्यागते. प्रोष्य यत्त्वां पश्यति हादिनि / अचुम्बीरालिमालिङ्गय तस्यां केलिमुदा किल / / 81 / / जागति तत्र संस्कारः स्वमुखाद्भवदानने / 10 निक्षिप्यायाचिषं यत्ता न्यायात्ताम्बूलफालिका: / / 62 / / चित्ते तदस्ति कच्चित्त नखजं यत्क्रुषा क्षतम् / प्राग्भावाधिगमागःस्थे त्वया शम्बाकृतं क्षतम् / / 83 / / स्वदिग्विनिमयेनैव निशि पार्श्वविवतिनोः / स्वप्नेष्वप्यस्तवमुख्ये सख्ये सौख्यं स्मरावयोः // 84 / / 15 क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणम् / दशिताधरमदंशा ध्याय यन्मामतर्जयः // 85 / / तथावलोक्य लोलाब्जनालभ्रमणविभ्रमात् / करौ योजयताध्ये (धी) हि यन्मयासि प्रसादिता / / 86 / / ताम्बूलदान मन्यस्तकरजं करपङ्कजे / 20 मम न स्मरसि प्रायस्तव नैव स्मरामि तत् / / 87 / / तदध्ये (घो) हि मृषोद्यं मां हित्वा यत्त्वं गता सखी: / तत्रापि मे गतस्याने लीलयैवाच्छिनस्तृणम् / / 88 / / स्मरसि प्रेयसि ! प्रायो यद्वितीयरतासहा / शुचिरात्रोत्युपालब्धा त्वं मया पिकनादिनी // 86 / / 25 भूञानस्य नवं निम्बं परिवेविषती मधौ।। सपत्नीष्वपि मे रागं संभाव्य स्वरुषः स्मरेः // 60 / /