________________ (5) नैषधीयचरितम् :: एकोनविंशः सर्गः ] [ 611 अपि च शमनस्यासी तातस्ततः किमु नौचिती यदयमदयः कलाराणामुदेत्यपमृत्यवे / / 50 / / उडुपरिवृढः पत्या मुक्तामयं यदपीडय द्यदपि बिसिनीं भानोर्जायां जहास कुमुदती / तदुभयमतः शङ्क सङ्कोचितं निजशङ्कया . प्रसरति नवार्के कर्कन्धूफलारुणरोचिषि // 51 / / श्रुतिमयतनो नोर्जानेऽवनेरघराध्वना विरहणकृतः शाखाः साक्षाच्छतानि दश त्विषाम् / निशि निशि सहस्राभ्यां दृग्भिः शणोति सहस्वराः 10. पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः / / 52 / / बहुनखरता येषामग्रे खलु प्रतिभासते .. कमलसुहृदस्तेऽमी. भानोः प्रवालरुचः कराः / उचितमुचितं जालेष्वन्तःप्रवेशिभिरायतैः / कियदवयवैरेषामालिङ्गिताङ्गुलिलङ्गिमा // 53 / / नय नयनयोक्पेियत्वं प्रविष्टवतीरमू भवनवलभीजालान्नाला इवाकरागुलीः / भ्रमदगुगणकान्ता भान्ति भ्रमन्त्य इवाशु याः .. पुनरपि धृता कुन्दे किंवा न वर्धकिना दिवः // 54 / / दिनमिव दिवाकीर्तिस्तीक्ष्णः क्षरैः सवितुः करै स्तिमिरकबरीलूनां कृत्वा निशां निरदीधरत् / स्फुरति परितः केशस्तोमैस्ततः पतयालुभि धुवमधवलं तत्तच्छायच्छलादवनीतलम् // 55 / / ब्रमः शङ्ख तव नल ! यशः श्रेयसे सृष्टशब्द यत्सोदर्य स दिवि लिखितः स्पष्टमस्ति द्विजेन्द्रः / अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य . म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः // 56 //