________________ (5) नैषधीयचरितम् :: अष्टदशः सर्गः ] / 885 न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः / नेकवर्णमणिकोटि कुट्टिमे हेमभूमिभृति सोधभूधरे / / 3 / / वीरसेन सुतकण्ठभूषणीभूतदिव्यमणिपङ्क्तिशक्तिभिः / कामनोपनमदर्थतागुणाद्यस्तृणीकृतसुपर्वपर्वतः // 4 / / धूपितं यदुदरान्तरं चिरं मेचकैरगरुसारदारुभिः / जाल जालघृतचन्द्रचन्दनक्षोदमेदुरसमोरशीतलम् // 5 / / क्वापि कामशरवृत्तवर्तयो यं महासुरभितैलदीपिकाः / तेनिरे वितिमिर स्मरस्फुरद्दोःप्रतापनिकराकुरश्रियः // 6 // कुङ्कुमणमदपङ्कलेपिताः क्षालिताश्च हिमवालुकाम्बुभिः / रेजुरध्वततशैलजस्रजो यस्य मुग्धमरिणकुट्टिमा भुवः / / 7 / / नैषधाङ्गपरिमर्दमेदुरामोदमार्दवमनोज्ञवर्णया / यद्भुवः क्वचन सूनशय्ययाभाजि भालतिलकप्रगल्भता / / 8 / / क्वापि यन्निकटनिष्कुटस्फुटत्कोरकप्रकरसौरभोमिभिः / सान्द्रमाद्रियत भीमनन्दनानासिकापुटकुटोकुटुम्बिता / / 6 / / 15 ऋद्धसबैऋतुवृक्षवाटिकाकी रकृत्तसहकारशीकरैः। यज्जुषः स्म कुलमुख्यमाशुगः प्राणवातमुपदाभिरञ्चति / / 10 / कुत्रचित्कनकनिमिताखिलः क्वापि यो विमलरत्नजः किल / . कुत्रचिद्रचितचित्रशालिकः / 20 . क्वापि चास्थिरविधन्द्रजालिकः // 11 / / चित्रतत्तदनुकार्यविभ्रमा - धाय्य मेकविधरूपरूपकम् / वीक्ष्य यं बहु धुवन् शिरो जरा वातकी विधिरकल्पि शिल्पिराट् / / 12 / / 25 भित्तिगर्भगृहगोपितर्जन यः कृताभुतकथादिकौतुकः /