________________ 854 ] [ काव्यषट्कं न कम्पसंपत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधा समेधितः / / 44 / / दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः / महर्षिणेवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः . / / 45 / / / स कौतुकागारमगात्पुरंध्रिभिः ___ सहस्ररन्ध्रीकृतमीक्षितुं ततः / अधात्सहस्राक्षतनुत्रमित्रता-' मधिष्ठितं यत्खलु जिष्णुनामुना / / 46 / / तथाशनाया निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया / . विमुक्तसंभोगमशायि सस्पृहं वरेण बध्वा च यथाविधि व्यहम् / / 47 / / कटाक्षणाज्जन्यजनैनिजप्रजाः क्वचित्परोहासमचीकरत्तराम् / / घराप्सरोभिर्वरयात्रयागता नभोजयद्भोजकुलाङ्कुरः क्वचित् / / 48 / / स कंचिदूचे रचयन्तु तेमनो पहारमत्राङ्ग ! रुचेर्यथोचितम् / पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम् // 46 / / मुखेन तेऽत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमति खलाहसत् / वराङ्गभागः स्वमुखं मतोऽधुना स हि स्फुटं येन किलोपविश्यते / / 50 / / // 46 / / 25