________________ (5) नैषधीयचरितम् :: पञ्चदशः सर्गः ] [843 स बिन्दुरिन्दुः प्रहितः किमस्य सा __ . न वेति भाले पठितुं लिपीमिव / / 64 / / कपोलपालोजनिजानुबिम्बयोः __समागमात्कुण्डलमण्डलद्वयी। नलस्य तत्कालमवाप चित्तभू रथस्फुरश्चक्रचतुष्कचारुताम् / / 65 / / श्रितास्य कण्ठं गुरुविप्रवन्दना ___द्विनम्रमोलेश्चिबुकानचुम्बिनी / प्रवाप मुक्तावलिरास्यचन्द्रमः स्रबत्सुधातुन्दिलबिन्दुवृन्दताम् // 66 / / यतोऽजनि श्रीबलवान्बलं द्विष-." बभूव यस्याजिषु वारणेन सः। अपूपुरत्तान्कमलाथिनो घना न्समुद्रभावं स बभार तद्भुजः / / 67 / / 15 कृतार्थयन्नथिजनाननारतं बभूव तस्यामरभूरुहः करः / तदीयमूले निहितं द्वितीयवध्रुवं दधे कङ्कणमालवालताम् 68 रराज दोर्मण्डनमण्डलीजुषोः . . स वज्रमाणिक्यसितारुणत्विषोः / मिषेण वर्षन्दशदिङ्मुखोन्मुखी यशःप्रतापाववनीजयाजितो / / 66 / / घने समस्तापघनावलम्बिना विभूषणानां मणिमण्डले नलः / / स्वरूपरेखामवलोक्य : निष्फली . चकार सेवाचणदर्पणार्पणाम् // 70 / / 25 व्यलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणार्पणाद्युतिः / प्रदर्शि विस्फारितरत्नलोचनैः परस्परेणेव विभूषणरपि / 71 / 2.