________________ 832 ] [ काव्यषट्कं भववृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुः मुखात्पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे / ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता __ भवानाख्यातः सन्कलिकलुषहारी हरिरिव / / 62 / / देवी च ते च जगदुर्जगदुत्तमाङ्गः / रत्नाय ते कथय के वितराम कामम् / किंचित्त्वया न हि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छु: / / 93 / / कूटकायमपहाय नो बपुं बिभ्रतस्त्वमसि वीक्ष्य विस्मिता / आप्तुमाकृतिमतो मनोषितां विद्यया हृदि तवाप्युदीयताम् / / 94 / / इत्थं वितीर्य वरमम्बरमाश्रयत्सु . तेषु क्षणादुदल सद्विपुलः प्रणादः / उत्तिष्ठतां परिजनालपनैर्नृपाणां . स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः / / 65 / / न दोषं विद्वेषादपि निरवकाशं गुणमये वरेण प्राप्तास्त्रे न समरसमारम्भसदृशम् / जगुः पुण्यश्लोकं प्रतिनृपतय: किंतु विदधुः स्वनिश्वास|मीहृदयमुदयनिर्भरदयम् / / 96 / / भूभृद्धिलम्भिताऽसौ करुणरसनदीमूर्तिमद्देवतात्वं तातेनाभ्यर्थ्य योग्याः सपदि निजसखीर्दापयामास तेभ्यः / वैदास्तेऽप्यलाभात्कृतगमनमनःप्राणवाञ्छां.विजध्नुः सख्याः संशिक्ष्य विद्याः सततधृतवयस्यानुकाराभिराभिः 97 अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वं प्रतिष्ठासमाने / 25