________________ 766 ] [ काव्यषट्कं द्वेष्याकोतिकलिन्दशैलसुतया नद्यास्य यद्दोद यी कीर्तिश्रेणिमयो समागममगाद्गङ्गा रणप्राङ्गणे / तत्तस्मिन्विनिमज्ज्य बाहुजभटैरारम्भि रम्भापरी- रम्भानन्दनिकेतनन्दनवनक्रीडादराडम्बरः / / 12 / / इति श्रुतिस्वादिततद्गुणस्तुतिः सरस्वतीवाङ्मयविस्मयोत्थया / शिरस्तिरःकम्पनयैव भीमजा नः तं मनोरन्वयमन्वमन्यत / / 13 / / यूवान्तरं सा वचसामधीश्वरा स्वरामृतन्यककृतमत्तकोकिला / शशंस संसक्तकरैव तद्दिशा निशाकरज्ञातिमुखीमिमां प्रति / / 14 / / न पाण्डयभूमण्डनमेणलोचने! ‘विलोचनेनापि नृपं पिपाससि / शशिप्रकाशाननमेनमीक्षितुं ' तरङ्गयापाङ्गदिशा (शोस्त्विषः / / 15 / / भूवि भ्रमित्वाऽनवलम्बमम्बरे विहर्तु मभ्यासपरम्परापरा। अहो महावंशममुं समाश्रिता ____ सकौतुकं नत्यति कीर्तिनर्तकी / / 16 / / इतो भिया भूपतिभिवनं वना दर्शद्भरुच्चरटवीत्वमीयुपी / निजापि सावापि चिरात्पुनः पुरी पुनः स्वमध्यासि विलासमन्दिरम् / / 17 / / आसीदासीमभूमीवलयमलयजालेपनेपथ्यकीर्तिः सप्ताकूपारपारीसदनजनघनो द्गीतचापप्रतापः / 15