________________ 788 ] { काव्यषट्कं तत्रावलोक्य सुदृशां हृदयेषु रुद्र ___ स्तद्देहदाहफलमाह स किं न विद्मः / / 6 / / आगःशतं विदधतोऽपि समिद्धकामा नाधीयते परुषमक्षरमस्य वामाः / चान्द्री न तत्र हरमौलिशयालुरेका ___ऽनध्यायहेतुतिथिकेतुरपैति लेखा // 62 / / भूपं व्यलोकत न दूरतरानुरक्तं सा कुण्डिनावनिपुरंदरनन्दिनी तम् / अन्यानुरागविरसेन विलोकनाद्वा जानामि सम्यगविलोकनमेव रम्यम् / / 3 / / भैमीङ्गितानि शिबिकामघरे वहन्तः साक्षान्न यद्यपि कथंचन जानते स्म / जज्ञस्तथापि सविधस्थितसंमुखीन भूपालभूषणमणिप्रतिबिम्बतेन // 64 / / भैमीमवापयत जन्यजनस्तदन्य ____गङ्गामिव क्षितितलं रघुवंशदीपः / गाङ्गेयपोतकुचकुम्भयुगां च हार चूडासमागमवशेन विभूषितां च / / 6 / / तां मत्स्यलाञ्छनदराञ्छितचापभासा नीराजितभ्रवमभाषत भाषितेशा / ब्रीडाजडे ! किमपि सूचय चेतसा चेत् क्रीडारसं वहसि गौडबिडौजसीह // 66 // एतद्यशोभिरमलानि कुलानि भासां / तथ्यं तुषारकिरणस्य तृणीकृतानि / स्थाने ततो वसति तत्र सुधाम्बुसिन्धी रङ्कुस्तदकुरवनीकवलांभिलाषात् / / 67 // 25