________________ 782 ] [ काव्यषट्कं तस्मिन्सुवर्णरसभूषणरम्यहर्म्य भूभृद्धटा घटय हेमघटावतंसाः // 52 / / तस्मिन्मलिम्लुच इव स्मरकेलिजन्म धर्मोदबिन्दुमयमौक्तिकमण्डनं ते / जालैमिलन्दधिमहोदधिपूरलोल कल्लोलचामरमरुत्तरुणि ! च्छिनत्तु / / 53 / / एतद्यशो नवनवं खलु हंसवेषं ___वेशन्तसंतरणदूरगमक्रमेण / अभ्यासमर्जयति संतरितु समुद्रा गन्तुं च निःश्रममितः सकलान्दिगन्तान् / / 54 / / तस्मिन्गुणैरपि भृते गणनादरिद्र स्तन्वी न सा हृदयबन्धमवाप भूपे / देवे निरुन्धति निबन्धनतां वहन्ति - हन्त प्रयासपरुषाणि न पौरुषाणि // 55 / / ते निन्यिरे नृपतिमन्यमिमाममुष्मा दंसावतंस शिबिकांशभृतः पुमांसः / रत्नाकरादिव तुषारमयूखलेखां लेखानुजीविपुरुषा गिरिशोत्तमाङ्गम् / / 56 / / एकैकमद्भुतगुणं धुतदूषणं च हित्वान्यमन्यमुपगत्य परित्यजन्तीम् / एनां जगाद जगदञ्चितपादपद्मा पद्मामिवाच्युतभुजान्तरविच्युतां सा // 57 / / ईशः कुशेशयसनाभिशये ! कुशेन द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते / ज्योतिष्मता सममनेन वनीघनासु तत्त्वं विनोदय घृतोदतटीषु चेतः // 58 / /