________________ (5) नैषधीयचरितम् :: दशमः सर्गः ] [ 773 पाख्यातुमक्षिव्रजसर्वपीतां भैमी तदेकाङ्गनिखातदक्षु / गाथासुधाश्लेषकलाविलासरलंचकाराननचन्द्रमिन्द्रः / / 133 / / स्मितेन गौरी हरिणी दृशेयं वीणावती सुस्वरकण्ठभासा / हेमेव कायप्रभयाङ्गशेषस्तन्वी मति कामति मेनकापि / / 134 / / ____इति स्तुवानः सविधे नलेन विलोकितः शङ्कितमानसेन / व्याकृत्य मोचितमर्थमुक्ते ___ राखण्डलस्तस्य नुनोद शङ्काम् // 13 // स्वं नैषधादेशमहो विधाय कार्यस्य हेतोरपि नानल: सन् / किं स्थानिवद्भावमघत्त दुष्ट ताहक्कृतक्याकरणः पुनः सः // 136 / / इयमियमधिरथ्यं याति नेपथ्यमञ्जु विशति विशति वेदीमुर्वशी सेयमुाः / 15. इति जनजनित: सानन्दनादैविजने . नलहृदि परभैमीवर्णनाकर्णनाप्तिः // 137 / / श्रीहर्ष कविराजराज़िमुकुटालंकारहीर: सुत श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तर्केष्वप्यसमश्रमस्य दशमस्तस्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः / / 138 / / / / इति महाकवि हर्षविरचिते नैषधीयप्रकाशे दशमः सर्गः समाप्तः // 10 //