________________ 748 ] [ काव्यषटकं विनम्य वक्रं यदि वर्तसे किय नमामि ते चण्डि ! तदा पदावधि / / 108 / / * प्रभुत्वभूम्नानुगहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः ? / क्व याचतां कल्पलतासि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ? / / 10 / / स्मरेषुमाथं संहसे मृदुः कथं हदि द्रढीयः कूचसंवते तव / निपत्य वैसारिणकेतनस्य वा व्रजन्ति बाणा विमुखोत्पतिष्णुताम् / / 110 / / स्मितस्य संभावय सक्वणा कणा विधेहि लीलाचलमञ्चलं भ्रवः / अपाङ्गरथ्यापथिकी च हेलया प्रसद्य संधेहि दृशं ममोपरि // 111 / / समापय प्रावृषमस्र विषां स्मितेन विश्राणय कौमुदीमुदः / दृशावितः खेलतु खञ्जनद्वयी विकासि पकेरुहमस्तु ते मुखम् / / 112 / / सुधारसोद्वेलनकेलिमक्षर स्रजा सृजान्तर्मम कर्णकूपयोः / दृशौ मदीये मदिराक्षि ! कारय स्मितश्रिया पायसपारणाविधिम् // 113 / / ममासनार्धे भव मण्डनं न न प्रिये ! मदुत्सङ्गविभूषणं भव / अहं भ्रमादालपमङ्ग ! मृष्यतां . विना ममोरः कतमत्तवासनम् // 114 / /