________________ 746 ] { काव्यपटकं 5 उदेति कोटिर्न मुदे मदुत्तमा किमाशु संकल्पकणश्रमेण वः // 65 / / ममैव वाहदिनमश्रुदुर्दिनैः प्रसह्य वर्षासु ऋतौ प्रसञ्जिते / कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्येरुदितं न मे गिरः / / 6 / / इयं न ते नैषध ! दृक्पथातिथि स्त्वदेकतानस्य जनस्य यातना / ह्रदे ह्रदे हा न कियद्गवेषितः / स वेधसाऽगोपि खगोऽपि वक्ति यः / / 17 / / ममापि कि नो दयसे दयाघन ! त्वदध्रिमग्नं यदि वेत्थ मे मनः / निमज्जयन्संतमसे पराशयं विधिस्तु वाच्यः क्व तवागसः कथा ? / / 68 / / कथावशेषं तव सा कृते गते - त्युपैष्यति श्रोत्रपथं कथं न ते ? / दयाणुना मां समनुग्रहीष्यसे तदापि तावद्यदि नाथ ! नाधुना ||6|| ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम ! किंचिदर्थये / भिदां हृदि द्वारमवाप्य मा स मे हतासुभिः प्राणसमः समं गमः / / 10 / / इति प्रियाकाकुभिरुन्मिषन्भृशं दिगीशदूत्येन हृदि स्थिरीकृतः / नृपं स योगेऽपि वियोगमन्मथः क्षणं तमुभ्रान्तमजीजनत्पुनः // 101 / / 25