________________ 744 ] [ काव्यषट्कं नि // 84 // नलाय लोभत्ततपाणयेऽपि ते पिता कथं त्वां वद संप्रदास्यते // 42 / / इदं महत्तेऽभिहितं हितं मया विहाय मोहं दमयन्ति ! चिन्तय / सुरेषु विघ्नैकपरेषु को नरः करस्थमप्यर्थमवाप्तुमीश्वरः ? // 83 / / इमा गिरस्तस्य विचिन्त्य चेतसा तथेति संप्रत्ययमाससाद सा। निवारितावग्रहनीरनिर्भरे नभोनभस्यत्वमलम्भयदृशौ स्फूटोत्पलाभ्यामलिदंपतीव तद् विलोचनाभ्यां कुचकुड्मलाशया / निपत्य बिन्दू हृदि कज्जलाविलौ मणीव नीलो तरलौ विरेजतुः // 85 / / धुतापतत्पुष्पशिलीमुखाशुगैः शुचेस्तदासीत्सरसी रसस्य सा / रयाय बद्धादरयाश्रधारया सनालनीलोत्पललीललोचना // 46 // प्रथोद्धमन्ती रुदती गतक्षमा ससंभ्रमा लुप्तरतिः स्खलन्मतिः / व्यधात्प्रियप्राप्तिविघातनिश्चया न्मृदूनि दूना परिदेवितानि सा / / 7 / / त्वरस्व पञ्चेषुहुताशनात्मन स्तनुष्व मद्भस्ममयं यशश्चयम् / विधे ! परेहाफलभक्षणव्रती पताद्य तृप्यन्नसुभिर्ममाफलैः 25 // 8 //