________________ 738 ] [ काव्यषट्कं // 44 // उपेक्षितेक्षोः करभाच्छमीरता दुरुं वदे त्वां करभोरु ! भोरिति // 43 / / विहाय हा सर्वसुपर्वनायक __त्वया धृतः किं नरसाधिमभ्रमः / मुखं विमुच्य श्वसितस्य धारया . वथैव नासापथधावनश्रमः तपोऽनले जुवति सूरयस्तनू दिवे फलायान्यजनु विष्णवे / करे पुनः कर्षति सैव विह्वला बलादिव त्वां वलसे न बालिशे ! // 45 / / यदि स्वमुद्वन्धुमना विना नलं भवेभवन्ती हरिरन्तरिक्षगाम् / दिविस्थितानां प्रथितः 'पतिस्ततो हरिष्यति न्याय्यमुपेक्षते हि कः // 46 // निवेक्ष्यसे यद्यनले नलोज्झिता सुरे तदस्मिन्महती दया कृता / चिरादनेनार्थनयापि दुर्लभं स्वयं त्वयैवाङ्ग ! यदङ्गमर्यते // 47 / / जितं जितं तत्खलु पाशपाणिना विना नलं वारि यदि प्रवेक्ष्यसि / तदा त्वदाख्यान्बहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेत राम् करिष्यसे यद्यत एव दूषणा दुपायमन्यं विदुषी स्वमृत्यवे / प्रियातिथिः स्वेन गृहागता कथं त धर्मराजं चरितार्थयिष्यसि ? // 46 / / 15 20 // 48 //