________________ 736 ] [ काव्यषटकं प्रविश्य यन्मे हृदयं ह्रियाहि तद्विनिर्यदाकर्णय मन्मुखाध्वना // 30 / / बिभेमि चिन्तामपि कर्तु मीशी चिराय चित्तापितनैषधेश्वरा / मृणालतन्तुच्छिदुरा सतीस्थिति लवादपि त्रुटयति चापलास्किल / / 31 / / ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्घय तरमस्पृशद्यदि कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिविबुधैनं पृच्छयते // 32 / / अपि स्वमस्वप्नमसूषुपन्नमी परस्य दाराननवैतुमेव माम् / स्वयं दुरध्वार्णवनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् / / 33 / / अनुग्रहः केवलमेष मादृशे मनुष्यजन्मन्यपि यन्मनो जने / स चेद्विधेयस्तदमी तमेव मे प्रसद्य भिक्षां वितरीतुमोशताम् // 34 / / अपि द्रढीयः शृणु मत्प्रतिश्रुतं स पीडयेत्पाणिमिमं न चेन्नृपः / हुताशनोद्वन्धनवारिकारितां निजायुषस्तत्करवै स्ववैरिताम् . // 35 / / निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा / ___घनाम्बुना राजपथे हि पिच्छिले / क्वचिबुधैरप्यपथेन गम्यते // 36 / /