________________ 700 ] [ काव्यषट्कं स्तुती मघोनस्त्यज साहसिक्यं वक्तुं वियत्तं यदि वेद वेदः / मृषोत्तरं साक्षिणि हृत्सु नृणाम ज्ञातृविज्ञापि ममापि तस्मिन् // 61 / / आज्ञां तदीयामनु कस्य नाम __नकारपारुष्यमुपैतु जिह्वा। प्रह्वा तु तां मूनि विधाय मालां ___ बालापराध्यामि विशेषवाग्भिः // 92 / / तप.फलत्वेन हरेः कृपेयमिमं तपस्येव जनं नियुङ्क्ते / 10 भवत्युपायं प्रति हि प्रवृत्तावपेयमाधुर्यमधैर्यसजि // 93 / / शुश्रूषिताहे तदहं तमेव पति मुदेऽपि व्रतसंपदेऽपि / विशेषलेशोऽयमदेवदेहमंशागतं. तु क्षितिभृत्तयेह // 94 / / अश्रौषमिन्द्रादरिणीगिरस्ते सतीव्रतातिप्रतिलोमतीवाः / स्वं प्रागहं प्रादिषि नामराय किं नाम तस्मै मनसा नराय / / 6 / / 15 तस्मिन्विमृश्यैव वृते हृदैषा मैन्द्री दया मामनुतापिकाभूत् / निर्वातुकामं भवसंभवानां धीरं सुखानामवधीरणेव // 66 / / वर्षेषु यद्भारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेष / तत्रास्मि पत्युर्वरिवस्ययेह शर्मोमिकिर्मीरितधर्मलिप्सुः / / 17 / / स्वर्गे सतां शर्म परं न धर्मा भवन्ति भूमाविह तच्च ते च / 20 शक्या मखेनापि मुदोऽमराणां कथं विहाय त्रयमेकमीहे / / 8 / / साधोरपि स्वः खलु गामिताधो गमी स तु स्वर्गमितः प्रयाणे / इत्यायतो चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न / / 6 / / प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः 25 बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापातसुखोन्मुखं कः // 100 / /