________________ 666 ] [ काव्यषट्कं चन्द्राभमानं तिलकं दधाना . ___ तद्वन्निजास्येन्दुकृतानुबिम्बम् / सखीमुखे चन्द्रसमे ससर्ज / चन्द्रानवस्थामिव कापि यत्र . // 62 / / दलोदरे काञ्चनकेतकस्य क्षणान्मसीभावुकवर्णलेखम् / तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी नखलेखिनीभिः // 63 / / विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र / अशाकि लीलाकमलं न पाणि रपारि कर्णोत्पलमक्षि नैव // 64 / / भैमीमुपावीरणयदेत्य यत्र ' कलिप्रियस्य प्रियशिष्यवर्गः / गन्धर्ववध्वःस्वरमध्वरीण तत्कण्ठनालैकधुरीणवीणः / / 6 / / नावा स्मरः किं हरभीतिगुप्ते ___पयोधरे खेलति कुम्भ एव / इत्यर्धचन्द्राभनखाङ्कचुम्बि कुचा सखी यत्र सखीभिरूचे // 66 / / स्मराशुगीभूय विदर्भशुभ्रू वक्षो यदक्षोभि खलु प्रसूनैः / स्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखाय // 67 / / यत्रावदत्तामतिभीय भैमो त्यज त्यजेदं सखि ! साहसिक्यम् / 25