________________ 648 ] [ काव्यषट्कं निवार्यतामार्य ! वृथा विशङ्का . भद्रेऽपि मुद्रेयमये ! भृशं का // 83 / / अलं विल वय प्रियविज्ञ ! याच्ञां कृत्वापि वाम्यं विविधं विधेये। यशःपथादाश्रवतापदोत्थात्खलु ___ स्खलित्वास्तखलोक्तिखेलात् // 84 / / स्वजीवमप्यातमुदे ददद्भयस्तव त्रपा नेदृशबद्धमुष्टेः / / मह्य मदीयान्यदसूनदित्सोधर्मः कराद्मश्यति कोतिधौतः 85 दत्त्वात्मजीवं त्वयि जीवदेऽपि शुध्यामि जोवाधिकदे तु केन / विधेहि तन्मां त्वरणान्यशोद्धममुद्रदारिद्रयंसमुद्रमग्नाम् / / 6 / / क्रीणीष्व मज्जीवितमेव पण्यमन्यन्न चेदस्ति तदस्तु पुण्यम् / जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्प्रभवामि गातुम् / 87 / वराटिकोपक्रिययापि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते / प्राणैः पणेः स्वं निपुणं भणन्तः क्रोणन्ति तानेव तु हन्त सन्तः 88 15 स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे / न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः / / 8 / / अकाण्डमेवात्मभुवाजितस्य भूत्वापि मूलं मयि वीरणस्य / भवान्न मे कि नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् / / 10 / / अलं विलम्ब्य त्वरितुं हि वेला कार्ये किल स्थैर्यसहे विचारः / 20 गुरूपदेशं प्रतिभेव तीक्ष्णा प्रतीक्षते जातु न कालमतिः / / 61 / / अभ्यर्थनीयः स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् / प्रियास्यदाक्षिण्यबलात्कृतो हि तदोदयेदन्यवधूनिषेधः / / 92 // शुद्धान्तसंभोगनितान्ततुष्टे न नैषधे कार्यमिदं निगाद्यम् / अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा // 93 / /