________________ 638 ] [ काव्यषटक वरणः कनकस्य मानिनी दिवमङ्कादमराद्रिरागताम् / घनरत्नकपाटपक्षतिः परिरभ्यानुनयन्नुवास याम् / / 86 / / अनलैः परिवेष मेत्य या ज्वलदर्कोपलवप्रजन्मभिः / .. उदयं लयमन्तरा रवेरवहद्वाणपुरोपरार्ध्यताम् / / 87 / / 5 बहुकम्बुमणिर्वराटिकागणनाटत्करकर्कटोत्करः। हिमवालुकयाच्छवालुक: पटु दध्वान यदापणार्णवः / / 88 / / यदगारघटादृकुट्टिमस्रवदिन्दूंपलतुन्दिलापया। मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया / / 89 / / रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः किल / 10 अनुसायमभूविलेपनापणकश्मीरजपण्यवीथयः // 60 / / विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते / मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः / / 91 / / सममेणमदैर्यदापणे तुलयन्सौरभलोभनिश्चलम् / पणिता न जनारवै-रवेदपि गुञ्जन्तमलि मलीमसम् / / 62 / / 15 रविकान्तमयेन सेतुना सकलाह ज्वलनाहितोष्मणा / शिशिरे निशि गच्छतां पुरा चरणौ यत्र दुनोति नो हिमम् / 63 / विधुदीधितिजेन यत्पथं पयसा नैषधशीलशीतलम् / शशिकान्तमयं तपागमे कलितीव्रस्तपति स्म नातपः / / 64 / / परिखावलयच्छलेन या न परेषां ग्रहणस्य गोचरः / फणिभाषितभाष्यफक्कि काविषमा कुण्डल नामवापिता।।९।। मुखपाणिपदाक्षिण पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः / स्वयमादित यत्र भीमजा स्मरपूजाकुसुमस्रजः श्रियम् / / 66 / / जधनस्तनभारगौरवाद्वियदालम्ब्य विहर्तु मक्षमाः / ' ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः / / 67 / / 25 स्थितिशालिसमस्तवणतां न कथं चित्रमयी बिभर्तु या। स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा / / 68 / /