SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ (5) नैषधीयचरितम् :: द्वितीयः सर्गः ] [ 631 प्रानन्दजाश्रुभिरनुस्रियमाण मार्गा प्राक्शोकनिर्गमितनेत्रपयःप्रवाहान् / चक्रे स चक्रनिभचक्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् / / 144 / / श्रीहर्ष कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् / तञ्चिन्तामणिमन्त्रचिन्तनफले शङ्गारभङ्गया महा काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः / 145 / // इति महाकविश्रीहर्षप्रणीते नैषधीयप्रकाशे प्रथमः सर्गः समाप्तः // 1 // // 2 // द्वितीयः सर्गः॥ अधिगत्य जगत्यधीश्वरादथ मुक्ति पुरुषोत्तमात्ततः / वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः / / 1 / / अधुनीत खगः स नैकघा तनुमुत्फुल्लतनूरुहीकृताम् / 15 करयन्त्रणदन्तुरान्तरे व्यलिखच्चनचुपुटेन पक्षती // 2 / / अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमज्रिणा। स्खलनक्षण एव शिश्रिये द्रुतकण्डूयितमौलिरालयम् // 3 / / स गरुद्वनदुर्गदुर्ग्रहान्कटु काटान्दशतः सतः क्वचित् / नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः // 4 // 20 अयमेत्य तडागनीड लघु पर्यवियताथ शङ्कितैः / / / उदडीयत वैकृतात्करग्रहजादस्य विकस्वरस्वरैः // 5 / / वहतो बहुशैवलक्ष्मतां धृतरुद्राक्षमधुव्रतं खगः / स नलस्य ययौ करं पुनः सरस: कोकनदभ्रमादिव / / 6 / / .' पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः। 25 अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः / / 7 / /
SR No.004484
Book TitleKavyashatakam Mulam
Original Sutra AuthorN/A
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1991
Total Pages1014
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy